SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . मेधातिथिमाष्यसमलंकृता । मघातिायमायतन [ द्वादशः । चेतनान्युच्यन्ते । अत एतदुक्तं भवति । सत्त्वप्रधानो वेदस्तदभ्यासात्सात्त्विकी गतिः प्राप्यते । न पुनः सत्त्वप्रधानस्य वेदत्वप्राप्तिः सात्त्विकी गतिरुच्यते । अन्येषां तु प्रदर्शनं सर्वक्षेत्रज्ञाः सन्त्यधिष्ठातारो वेदपुरुषा वारुणे लोके श्रूयन्ते ॥ ४९ ॥ ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ॥ उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः॥५०॥ विश्वसृजो मरीच्यादयः प्रजापतयः । धर्मो वेदार्थः । पूर्व वेदस्वरूपमुक्तमिदानी तदर्थः स्वरूपार्थः प्रधानतर इत्युक्तं भवति । अथवा धर्मादेश्च विग्रहवत्वं पूर्ववद्रष्टव्यं । महानिति संज्ञांतरं । अव्यक्तं प्रधानं कृतिरित्येकोऽर्थः । ननु च सत्त्वाधिक्ये प्रधानस्य तद्विकारत्वाज्जगतः सर्वेषां विकाराणां सत्त्वाधिक्यं प्राप्तं । ततश्च रजस्तमसो कुतोऽतिरेकः । १. अतो यदुक्तं "यो यदेषां गुणो देहे साकल्येनातिरिच्यत" इति तदनुपपन्नं । उच्यते। नैतदेव परं प्रधानरूपता प्राप्या किं तर्हि ये ये प्रकाराः सन्ति यदि प्राप्यो व्यक्तिभावो यदि वाऽदृष्टविधिर्यदि वा नैवायं संख्येयः प्रधानेऽव्यक्तशब्दो वर्तते क्रियानिमित्तो ह्ययं नास्य व्यक्तिर्विद्यत इति अस्फुटप्रकाशत्वादव्यक्तं । तथा च परमात्मनि वृत्तिर्भवति । महत्त्वं च तस्य विभुत्वादुपपद्यत एव । ननु च नैवास्य सात्त्विकी गतिः । अगुणत्यागा १५ चाप्येवं । यदा हि नाहं न मम किंचिदिति मुक्ताहंकारममकारो भवति तदा ब्रह्मता भवतीति विज्ञायते । निदिध्यासनयैव ब्रह्मप्राप्तिः । किन्तु सत्त्वप्रधाना एव ज्ञानादितत्परा भवन्ति । न तामसी राजसी चेति । एवं कृत्वोच्यत " उत्तमा सात्विकी गतिः "। अन्यौ पक्षावनुपपन्नौ । न हि प्रधानभावं प्राप्य काचित्पुरुषार्थसिद्धिः । अचेतनं हि तन्द्यपदिशन्त्यचैतन्यं स्थावरेभ्योऽपि यदधीना हि मदमूर्छावस्थाः केचिदर्थयन्ते । २० दृष्टविधिस्तु नैव संभवत्यश्रुतत्वात् " आत्मा वारे द्रष्टव्य" इति (बृहदारण्यके अ० २ ब्रा० ५) श्रुतितः प्रधानं द्रष्टव्यमिति तस्मात्परमात्मविषयावेव महानव्यक्त इत्येतौ शब्दौ॥५०॥ एष सर्वः समुद्दिष्टस्लिमकारस्य कर्मणः॥ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥५१॥ त्रिपकारस्य वाङ्गनःकायसाधनस्य त्रिविधः सत्वादिगुणभेदेन पुनस्त्रिविधः २९ उत्तमादिविशेषतो या अप्यत्र गतयो विशेषतोऽनुक्तास्ता अप्युक्तसादृश्यादन्तर्भावनीयाः गुणप्रकरणोपसंहार उत्तरोऽपि श्लोको वक्ष्यमाणसूचकः ॥११॥ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ॥ पापान्संयान्ति संसारानविद्वांसो नराधमाः॥ ५२ ॥ १ण-सम्भवन्ति । २ ण-प्रवृत्तो भवति । ३ ण-धर्मः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy