SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ९१५ चारणाः कथकगायकस्त्रीसंयोजकादयः । सुपर्णाः पक्षिविशेषाः । शूद्रा गर्हिता. इति संबन्धः । ये ब्राह्मणानवजानते ये च तद्धृत्युपजीविनो ये च मदमानादियुक्ता हिंस्राश्चौरा इत्येवमादयो विगर्हिताः ॥ ४४ ॥ झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रयः ॥ तपानप्रसक्ताश्च जघन्या राजसी गतिः ॥४५॥ झल्ला मल्ला इति रङ्गावतारकास्तत्र मल्ला बाहुयोधिनः । झल्ला यष्टिप्रहारिणः परिहासजीविनो ॥ ४५ ॥ राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ ४६॥ राजानो जनपदेश्वराः । क्षत्रियास्तदनुजीविनः सामन्ताः । वादप्रधानाः १० शास्त्रार्थगहनेष्वितरेतरं जल्पन्ति । युद्धप्रधाना योधकाः ॥ ४६ ॥ ___ गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये ॥ तथैवाप्सरसः सर्वा राजसीपूत्तमा गतिः॥४७॥ गन्धर्वादयो देवास्तेषामर्थवादेतिहासेभ्यो भेदा विज्ञेयः । विबुधा देवास्तेषामनुचराः सिद्धविद्याधरादयः ॥ ४७ ॥ तापसा यतयो विप्रा ये च वैमानिका गणाः॥ नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ ४८ ॥ तापसास्तपःप्रधाना वानप्रस्थादयः । यतयः परिव्राजकादयः । अनेन च ज्ञापयति न केवलं जन्मोपपत्तिर्गतिनातस्य कर्माचरणादपि । यतो न तापसादयः कतिचिजातिविशेषाः किं तर्हि कर्मनिमित्ता एते व्यपदेशाः । अन्ये तु मन्यन्ते । सन्ति २० मेरुनिवासिनः केचिज्जनपदा यतयो नाम श्रूयन्ते “ इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छदिति” । विमानानि यानविशेषाः पुष्पकादयस्तैश्चरन्ति वैमानिकाः । अन्तरिक्षचराः केचिद्देवयोनयः । प्रथमा निकृष्टाः ॥ ४८ ॥ यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः॥ पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ ४९ ॥ २५ आनुपूर्वीविशिष्टः शब्दो वेदैः । ननु च गत्यधिकारे कः प्रसंगोऽचेतनानां । अचेतनाश्च शब्दादयः । अत्यल्पमिदमुच्यते शब्दादयोऽचेतना इति । सर्व एवैते देवादयः स्थावरान्ताः शरीरात्मानः । तत्र सर्वशरीराणामचेतनादितच्छक्तिः केवलं पुरुषादिचैतन्यरूपिणी प्राप्यते । निर्गुणश्च पुरुषस्तदधिष्ठितानि शरीराण्यचेतनान्यपि १ ण-पुरुषाश्च कुवृत्तयः । २ ण-पत्तिगतिजातस्य । ३ ण-+वत्सरः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy