________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वादशः
यत्सर्वेणेच्छति ज्ञातुं यन्त्र लज्जति चाचरन् । येन तुष्यति चात्माऽस्य तत्सत्वगुणलक्षणम् ॥ ३७॥ विस्पष्टोऽयम् ॥ ३७ ॥ तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते ॥
सत्त्वस्य लक्षणं धर्मः श्रेष्ठयमेषां यथोत्तरम् ॥ ३८ ॥
ननु च कामेऽपि सुखमस्ति । तत्र यत्प्रीतिसंयुक्तं तत्सत्त्वलक्षणमिति प्राप्तं । कथं तमसो लक्षणं । उच्यते । मोहरूपं तमोऽत्र संवेदनमस्ति । तदपि सत्वस्यैव लक्षणं " सत्यं ज्ञानम्" इत्युक्तत्वात् । उच्यते । नात्र भोक्तृभोग्यभावावस्थाभिप्रेता। किं तर्हि ? विषयगतस्पृहातिशयः । न च तस्यामवस्थायां सुखोत्पत्तिरव्यक्तविषयत्वं च विद्यते १० कामप्रधानस्य युक्तायुक्तविवेकशून्यत्वादस्त्येव मोहरूपता । ईदृशश्चात्र कामोऽभिप्रेतः । न यहतौ शास्त्रार्थतया स्वदारेषु गमनौत्सुक्यम् ॥ ३८॥
येन यस्तु गुणेनैषां संसारान्प्रतिपद्यते ॥ तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ ३९ ॥
एषां गुणानां मह्यं येन गुणेन यान् संसारान् पुरुषः प्रतिपद्यते । संसारशब्दो १५ गतिवचनः । यानि जन्मानि प्राप्नोतीत्यर्थः । तदुत्तरत्र वक्ष्यत इति प्रतिज्ञाश्लोकः ॥ ३९ ॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः ॥ तिर्यक्त्वं तामसा नित्यमित्येषां त्रिविधा गतिः ॥ ४० ॥ सामान्येन गतिनिर्देशो गुणनिमित्तोऽयम् ॥ ४० ॥ त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ॥ अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ।। ४१ ॥
एषा त्रिविधा गौणिकी सत्त्वादिगुणप्रयुक्ता प्रत्येकं पुनः त्रिविधोत्तमाधममध्यमभेदेनातो नवधा संपद्यते । कर्मविद्याविशेषाच्चानन्ताः कुशलाकुशलकर्मवशात् । बुद्धिपूर्वप्रयोगश्च कर्मणां च बहुभेदत्वात्तदिदमाह कर्मविद्याविशेषत इति ॥ ४१ ॥
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः॥ पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ ४२॥ हस्तिनश्च तुरङ्गाश्च शुद्रा म्लेच्छाश्च गर्हिताः ॥ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ।। ४३ ॥ चारणाश्च सुपणोश्च पुरुषाश्चैव दाम्भिकाः॥ रक्षांसि च पिशाचाश्च तामसीपूत्तमा गतिः ॥ ४४ ॥
२०
२५
१ण-मध्यात् । २ण-एषां । ३ण-विशिष्यतः ।
For Private And Personal Use Only