________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
९१३
कर्मणां काम्यानां दृष्टार्थानामदृष्टार्थानां चारंभे रतिर्वृथारंभश्चैतत् राजसं लक्षणम् । अधैर्यमल्पेऽप्युपघातहेतौ चेतसोऽसमाश्वासो दैन्यग्रहणमुत्साहत्यागः । असत्कार्य लोकशास्त्रविरुद्धं तस्य परिग्रह आचरणम् । विषये संगोऽजस्रं पुनः पुनः प्रवृत्तिः ॥ ३२ ॥
लोभः स्वमोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नत्तिता ॥
याचिष्णुता प्रमादश्च तामसं गुणलक्षम् ॥ ३३ ॥ धनादिषु रागो लोभः । क्रौर्य स्वल्पेऽपराधे वैरानुबन्धः । नास्तिक्यं प्रमादता । भिन्नत्तिता शीलभ्रंशः । गणनं शिष्टविगर्हणा । याचिष्णुता याचकत्वं तच्छीलता । प्रमादोऽनवधानं धर्मादिष्वपायपरिहारेऽनादरः । स्वप्नोऽधृतिरिति नप्रश्लेषः ॥ ३३ ॥
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् ॥
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ ३४॥ त्रिषु कालेषु साम्योपचयापचयेषु वोत्तमाधममध्यमेषु च फलोदयेष्विदमिति वक्ष्यमाणस्य निर्देशः ॥ ३४ ॥
यत्कर्म कृत्वा कुर्वश्च करिष्यश्चैव लज्जति ॥
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ ३५॥ यदुक्तं त्रिष्विति कालनिर्देशस्तदर्शयति । कृत्वा कुर्वन् करिष्यन्निति च । १५ कदाचित्रिष्वपि कालेषु कदाचिदन्यतरस्मिन् । किमर्थमहमेवमकरवं कथं शिष्टानामग्रतो भवामीति लज्जा चेतसि परिखेदः ॥ ३५ ॥ .
येनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् ॥
न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् ॥३६ ॥ लोके साधुवादो ममैवं स्यादिति बुद्ध्या यद्यागतपोधनानामाचरणं तच्च ख्यापनार्थम् । २० यथा तीर्थकालेभ्यो दानं राजनि स्पर्धया जल्पः शूद्रेभ्यः शास्त्रव्याख्यानं पुष्कलमित्यनेनानुषंगित्वाख्यातेः सहायतामाह । धर्मार्थ प्रवर्तमानस्य यदि जनाः प्रकाशयन्ति तादृशो धर्मो न दोषाय । तदुक्तं यथेाहेतोरिति । यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तं
" यथेासक्तो युधि कर्षकोऽस्ति । नृणानि वल्लीरपि संचरन्ते ॥ २५
" तथा नरो धर्मपथेन संचरन् । यशश्च कामांश्च वसूनि चाभुते ॥" असंपत्तौ च कर्मफलानां न शोचति न दुःखमस्ति । अथवा कर्मणामसंपत्तौ॥ ३६॥ १ण-राज्ञा लक्षणम् ।
For Private And Personal Use Only