SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९१२ मेधातिथिमाष्यसमलंकृता । [द्वादशः तत्र यत्पीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ॥ प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ।। २७ ॥ भीतिसंयुक्तं संवेदनं शुद्धाभं शुद्धमिवाभाति रजस्तमोभ्यामकलुषितं मदमानरागद्वेषलोभमोहमयशोकमात्सर्यदोषरहितं एवं सर्वमनुच्छेदाबीजवासनाया आ ब्रह्मप्राप्ति५ स्थितत्वादेषा चावस्था स्वसंवेद्यैव कस्यां वेलायां भवेत् ॥ २७॥ यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः ॥ तद्रजोप्रतिपं विद्यात्सततं हारि देहिनाम् ॥ २८ ॥ दुःखेन समायुक्तं संभिन्नं शुद्धं प्रीतिरूपं न भवत्यत उच्यतेऽप्रीतिकरं दुःखानु. विद्धतया प्रीत्या न युक्तं अप्रतिपमप्रत्यक्ष पारमार्थिकमेतद्रजसो रूपं भर्तृविषयेषु प्रवर्तकं १० स्पृहाजनकमित्यर्थः ॥ २८ ॥ यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् ॥ अप्रतय्मविज्ञेयं तमस्तदुपधारयेत् ॥ २९ ॥ मोहो वैचित्यं युक्तायुक्तविवेकाभावः । विषय आत्मा स्वभावो यस्य । ननु चाय मविषयोऽन्तरात्मत्वादेव । तत्कथं विषयस्वभावो मोहविषयानुरागात् बुद्धिरिव एवमुच्यते । १५ विषयाद्वाऽतीव बुद्धिस्तदात्मिका संपद्यत इति संख्यात्रैगुण्यं न त्वन्तर्बहिःसत्त्वानामविशब्दं । अप्रतक्यं तदनुमानगोचरमविज्ञेयं अंतर्बहिःकरणानामगोचर इत्यर्थः ॥ २९ ॥ त्रयाणामपि चैतेषां गुणानां यः फलोदयः ।। अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः॥३०॥ त्रयाणामेषामासेन्यमानानां यत्फलमुत्पद्यत उत्तमाधममध्यमं तद्वक्तव्यतया २० प्रतिज्ञायते । यस्मिन् गुण उद्विक्ते यः पुरुषस्य स्वभावो भवति स उच्यत इति प्रतिज्ञा॥३०॥ वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः ॥ धर्मक्रियाऽत्मचिन्ता च सात्विकं गुणलक्षणम् ॥ ३१ ॥ तत्कस्येति संबन्धगुणलक्षणमित्येवं वक्तव्यतया प्रतिज्ञायते सात्विकमिति कथंचिद्योजयितव्यं । गुणो लक्ष्यते येन तद्गुणलक्षणं तत्कस्येति सात्विकमिति संबन्धः । २५ प्रयोजनं समुदायसम्बन्ध्यवयवा अपि दृश्यन्ते । तेनैतदुक्तं भवति । सम्बन्धस्य गुणस्यैत लक्षणं । यथा देवदत्तस्य गुरुकुलं गुरुरोपसर्जनीभूतोऽपि देवदत्तपदेन संम्बध्यते तद्वदेतत् द्रष्टव्यम् । पदार्थी व्याख्याताः ॥ ३१ ॥ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः ।। विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ ३२ ॥ १ण-मिव । २ण-राज्ञा लक्षणम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy