________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९१०
मेधातिथिभाष्यसमलंकृता ।
[द्वादशः
ननु च यदि तौ महान् क्षेत्रज्ञश्च संबध्येते ततस्तस्य पश्यत इति तस्येति कः संबध्यते। जीव इति केचित् । उक्तं च " स एव क्षेत्रज्ञः स एव जीव" इति । अथ लिङ्गं । ननु च महच्छब्देन तदेवोक्तं अथान्तःकरणं महबुद्धयादि तत्रापि कः संबन्धो लिङ्गस्य धर्माधर्माभ्यां तद्धि सूक्ष्मं भतरूपमेव । यथोक्तं “तेषामिदं तु सप्तानाम्" इत्यत्रान्तरे । अतो मन्यामहे यदेवान्याख्यातमस्ति न श्लोके " तावेवोभौ" इति महत्परमात्मानौ बुध्येते इति तदेवमुक्तं पश्यामः । तयोहि दृष्टान्त उपपद्यते । महतः करणस्य ततः कर्तृत्वोपचारात् । काष्ठानि पचन्तीति यथा तस्येति च क्षेत्रज्ञस्य परामर्शभेदोपपत्तिः । परमात्मनश्च क्षेत्रज्ञाश्रययोर्धर्माधर्मयोदृष्टान्तवचनं सर्वस्य सुखदुःखोपभोगस्य तदधीनताख्यापनार्थ । यथोक्तं ।
" ईश्वरप्रेरितो गच्छेत्स्वर्ग वाश्वभ्रमेव वा" । प्रेरणा च धर्माधर्मनियमितेच्छैव । ननु १० च धर्माधर्मयोरिच्छां प्रति नियन्तृत्व ऐश्वर्य हीयते । तथा शारीरके दर्शितं यथेह राजा
सेवानुरूपं ददाति न च तस्येश्वरत्वमपैत्यतो महत्परमात्मानौ पश्यत इति व्यपदिश्यते। तस्येति क्षेत्रज्ञज्ञानं तदप्ययुक्तमुत्तरग्रन्थविरोधात् । याभ्यां प्राप्नोति संपृक्त इति । न हि परमात्मना कस्यचित्संपर्कः संबन्ध उच्यते । न च परमात्मना कश्चित्संबन्धोऽपि।
एवं तद्यथ याम्यामिति नैवं महत्परमात्मानौ संबध्येते । किं तर्हि । धर्मः पापं च । तयोरपि १५ प्रकृतत्वात् । तौ धर्म पश्यतस्तस्य पापं चेति । यदि महच्छब्देनान्तःकरणमुच्यते
सुतरामनुपपत्तिः । न हि परमात्मनो द्रष्टुत्वे कारणापेक्षा । अधिकरणमेव हि बोधिपरमात्मस्वरूपमभ्येति “ तावेव चोभाविति " । कीदृशमेतदभिगमनं यदि तद्भावापत्तिः । सा नैव कल्मषव्यपायमात्रसाध्या । अथ तत्प्राप्तिप्रवणभासाऽपि नैव प्रलीनेषु भूतेष्वशरीरस्य भवति । तस्मात्तौ धर्म पश्यतस्तस्य तस्यैवात्मन इति पूर्ववन्नेयम् ॥ १९ ॥
यद्याचरति धर्म स प्रायशोऽधर्ममल्पशः ॥ तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ २० प्रायशो बाहुल्येन तैरेव भूतैर्महदाभिर्महाभूतपर्यन्तैः स्वर्गे सुखमाप्नोति ॥२०॥ यदि तु प्रायशोऽधर्म सेवते धर्ममल्पशः॥ तैर्भूतैः स परित्यक्तो यामीः प्रामोति यातनाः ॥ २१॥
ननु च पंचभ्य एव मात्राभ्यः शरीरं दुष्कृतिनामित्युक्तं किमिदानीमुच्यते तैर्भूतैः परित्यक्त इति । उच्यते । न भौतिकं शरीरं नाप्यशरीरस्य यातनाः । किं तर्हि अत्यन्तविलक्षणे ते मानुषशरीरेऽतोन्यान्येतानि मृदुस्निग्धसुकुमारशरीरारंभकाण्यत्यन्त
१ प्रकरणं । २ फ-ण-मुप । ३ ण-उक्तं । ४ ण-करणा । ५ ण-त्यकामिति ।
For Private And Personal Use Only