________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अध्यायः ]
मनुस्मृति: !
ताभिः प्रादुर्भूताभिरिंद जगच्चेष्टते सक्रियं भवतीत्यर्थः । शरीरेन्द्रियविज्ञानैर्विना चेष्टाया अभावाचेष्टयतीत्युच्यते । अन्ये तु शरीरतः प्रधानं च परमात्मनः शरीरं तदधीनप्रवृत्तित्वात् ॥ १५ ॥
पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् ॥ शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥
१६ ॥
तेनानुभूय ता यामीः शरीरेणेह यातनाः || तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥
नात्र भूतानि पंचभ्यो भूतेभ्योऽन्यच्छरीरं प्रेत्योत्पद्यते । एतदुक्तं भवति । शुक्रशोणितमन्तरेणैव पाञ्चभौतिकं शरीरमुत्पद्यते । दुष्कृतीनां च पाञ्चभौतिक शरीरं पुण्यकृतां तु तेजसाऽऽकाशमात्राणि भवन्ति । यथोक्तं " वायुभूतः स्वमूर्तिमान् ” इति । यातना पीडातिशयः यद्यतिदृदम लौकिक दुःखसहिष्णुः ॥ १६ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
१७ ॥
यमो नाम देवताविशेषो दुष्कृतिनां निग्रहादिकृत्तद्दृष्टा यातना अस्य ता अनुभूय छलेन पांचभौतिकेन शरीरेण तानि शरीराणि पुनः प्रलीयन्ते तासु सूक्ष्मासु भूतमात्रासु || १७ |
सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् ॥ व्यपेतकल्मषोऽभ्येति तावेवाभौ महौजसौ ॥ १८ ॥
१ ण-र-णीव । २ ण-उपचारितः ।
९०९
तौ धर्म पश्यतस्तस्य पापं चातन्द्रितौ सह ||
याभ्यां प्राप्नोति संवृक्तः प्रेत्येह च सुखासुखम् ॥ १९ ॥
For Private And Personal Use Only
विषयसङ्गात्प्रतिषिद्धविषयोपसेवनात्प्रतिषिद्धान् ततः सङ्गाच्च ये जाता दोषाः पापनिर्मिताः । नरकाद्दुःखान्यनुभूय तेन च दुःखोपभोगेन व्यपेतकल्मषोऽपहतपाप्मा चेति । तावेवोभौ महौजसौ कावुभौ महाक्षेत्रज्ञाच्च तौ प्रकृतावनन्तरश्लोकेन च क्षेत्रज्ञ एवानुभाविता सुखदुःखयोः स इति च तस्यैव परामर्शोऽतः क्षेत्रज्ञमम्येतीति प्राप्तं । तच्च विरुद्धं । स एव प्राप्यः प्रापकश्च । सत्यमौपचारिको भेदोऽभिप्रेतः । अभ्येतीत्ययमर्थः । एतावन्मात्रशेषो भवति । यदुत क्षेत्रज्ञतया प्राणादिसंघात्मकेन महानिति व्यपदिष्टेन फलेषु तावन्मात्रः परिशिष्यते । लिङ्गजीवश्च क्षेत्रज्ञः । अन्ये तु महत्परमात्मानाविति न्याचक्षते । सुखोदर्कान् क्षीणे पाप उत्तरकालं सुखमनुभूयते । प्रतिधिणि पापे स्वल्पेऽपि न सुखोत्पत्तिः । यथा स्वल्पेऽप्यजीर्णे न भोजनं सुखाय ॥ १८ ॥
२५
१०
१५