________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[द्वादशः
अभिध्यानं नाम परद्रव्यविषयेाबुद्ध्या परद्रव्याभिभवानुचिन्तनं । कियदश्वगोधनं कियद्वाऽजाविकमिति च विभवोऽश्वाः धिग्दैवं कस्मादस्येयती समृद्धिः । अथ च कथं नामैतस्यापहरेयमथवा साधुर्भवति यद्येतस्यैतन्न भवति । अन्ये त्वाहुरेतद्धनं समभिभवत्यनिष्टचिन्तनं परस्येत्यभिसंबध्नन्ति । परवधोपायचिन्तनं यदि म्रियते तन्ममास्त्विति वा ।
ननु च परद्रव्याभिध्यानमीदृशमेवोक्तम् । अनेनैव सिद्धे तदनर्थकं । सामान्यशब्दो ह्ययं । यदनिष्ठमनभिप्रेतं परस्य तन्न चिन्तनीयं । धननाशोऽपि परस्य नैवेष्टः । एतद्भयाच्च किंचन परस्येत्येतन्न व्याहरन्ति । अनिष्टं च यत्प्रतिषिद्धं तद्व्याचक्षते । अस्मिन्नपि पक्षे परद्रव्याभिध्यानं प्राधान्यार्थमेव । एवं वितथाभिनिवेशोऽपि । पूर्वपक्षार्थस्य सिद्धान्तत्वेन
ग्रहणं विज्ञानवादो विदां प्रामाण्यं “अनात्मता ग्रह" इत्येवमादि । अन्ये तु नित्यनिरामिष१० द्वेषमाहुः । इयं च त्रिविधाऽकुशला मानसी प्रवृत्तिः । अतोऽन्या कुशला अस्पृहा परद्रव्येषु
दया सर्वसत्त्वेषु श्रद्धा धर्माद्यस्तित्वादिषु । तथा च भगवान् व्यासः " अनभिध्यापरस्त्रेषु सर्वसत्वेषु सौल्दृदं । धर्मिणां फलमस्लीति त्रिविधं मनसा स्मरेत् " ॥५॥
पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः॥ असंबद्धमलापश्च वाङ्मयं स्याचतुर्विधम् ॥ ६ ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ ७ ॥
शास्त्रीयाप्राधान्यतयाऽस्यादत्तानामसद्भय उपादानं दुष्टं चैव। तथा कुमार्यादिपरदारादावपि विपरीतधर्मादानं परित्राणमिन्द्रियसंयमश्च । इदं मनोवाग्देहभेदेन दशविधं । प्रवृत्तिकुशलाकुशलविभागेन विंशतिप्रकाराः ॥ ७ ॥
* मानसं मनसैवायमुपभुक्ते शुभाशुभम् ।।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ ८॥
परस्य मनस्तापो येन जन्यते कर्मणा ततो मानसं दुःखमाप्नोतीति केचित् । वयं तु ब्रूमो यत्रिविधं मानसमुक्तं ततो मनोदुःखाप्तिः । एवमुत्तरयोरपि ॥ ८ ॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥ २५ वाचिकैः पक्षिमृगता मानसैरन्त्यजातिताम् ॥९॥
१ण-र-भूतेषु । *त्रिविधं च शरण वाचा चैव चतुर्विधम् । मनसा त्रिविधं कर्म दश धर्मपथांस्त्यजेत् ॥१॥
For Private And Personal Use Only