SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ९०५ पृष्टप्रतिवचनमेतत् । यदहं पृष्टः शृणु तत्कर्मणो योगमिति संबन्धः । स च प्रकृतत्वात्फलेनैव विज्ञेयः ॥ २ ॥ शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।। कर्ममा गतयो नृणामुत्तमाधममध्यमाः ॥३॥ शुभस्य निर्देशो दृष्टान्ततया मनोवाग्व्यापारविध्यर्थो वा मनसो वाचो देहाच्च संभवति। ५ कर्मशब्दो न चेज्यायामेव कायपरिस्पन्दे वर्तते। किं तर्हि क्रियामात्रयोगध्यानवचनात्मकेऽपि फलशब्दः प्रत्येकमभिसंबध्यते । शुभमशुभफलं च नैवं विज्ञेयं कायव्यापारसाधनादिवत् कर्मानुष्ठानाच्छुभाशुभफलप्राप्तिः । अपि तु मनोवाक्कायसंभवादप्येवमेव । तस्मादपि त्रिविधात्कर्मणस्तु विधीयते फलप्राप्तिः ॥ ३ ॥ तस्येह त्रिविधस्यापि व्यधिष्ठानस्य देहिनः॥ दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥ ४॥ ननु च दण्ड्यान् यनेतन हिंस्यादिति' शुभमशुभं च ते सर्वे कायव्यापारसाध्ये तदानेनात्मनः स्वत्वनिवृत्तिः परस्य च स्वत्वंसंपादनं तच्च पूर्व दक्षिणेन हस्तेनेत्यादि विहितं। यागोऽपि प्रयोगरूपोऽवभृथान्तः कायव्यापारनिर्वत्यो भवति । एवं संघातदण्डाद्यविद्या तु कायिकतया प्रसिद्धैव । तत्र किं तत्कर्म यन्मनसः संभवत्यत आह अर्थस्यास्य मनो १५ विद्यात्मवर्तकं । मनसो हि व्यापाराः सर्वदर्शनादयः। न च त्रिष्वसत्सु भौतिको व्यापारः । तथा हि प्रथमं तावन्मनसाऽयमर्थ संपश्यत्ययमीदृश एतस्य वस्तुनः सुखं दुःखं वाऽस्य कारणात् तत आयत्ते कथमेतन्मनः संपद्यते ततोऽध्यवस्यति संपादयाम्यतो नेदमिति । तत्र उदरे क्रियाप्रघाने कायपरिस्पन्दरूपवाग्व्यवहारश्चातः सर्वस्य मनः प्रवर्तकं प्रेक्षापूर्वकारिणः अबुद्धिपूर्व तु नावश्यं सद्दर्शनादयः पूर्वभाविरूपस्य ताद्रूप्येण ग्रहणं यथा २० मेघवर्णसादृश्यात्पानकबुद्धया प्रवृत्तिः सन्तमासंभवात्प्रवृत्ति संतमासंभवति । तया परस्त्रीष्वन्यत्तु दैवोपनिपतितं । यथा सुप्तस्य हस्तसंचारपार्श्वपरिवर्तनादिना मशकादिप्राणिवधस्तत्रापि कर्तृत्वमुपपादितं प्रायश्चित्तेषु प्रवृत्तिहेतुर्विविधस्य वाङ्मनःकायसाधनभेदेन व्यधिष्ठानस्योत्तमाधममध्यमगतिभेदेन दशलक्षणयुक्तस्य मनः कायकर्मणोः प्रत्येक त्रैविध्यं वाङ्मयं चतुर्विधं । एतानि दशलक्षणानि तान्युपरिष्टाद्वक्ष्यति ॥ ४ ॥ २९ परद्रव्ये प्वमिध्यानं मनसाऽनिष्टचिन्तनम् ॥ वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ ५ ॥ १ण-र-शृणुतकर्मणो योग। २ण-र-आपादन । ३ र-ज्या। ४ फ-एव तस्य । ५र-रूपा। ६ र-व्वत्यंतं तु। ११४-११५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy