________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। तेनायं समासः ।अमराश्च ते लोकाश्च अमरलोकास्तद्भावः अमरलोकता । देवजनत्वं प्राप्नोति देवत्वं प्राप्नोतीत्यर्थः । वृत्तानुरोधादेवमुक्तम् । अथवाऽमराँल्लोकयति पश्यत्यमरलोकः । 'कर्मण्यण् ' । तदन्ताद्भावप्रत्ययः । ( व्या. सू. ३॥ २॥ १) देवदर्शी संपद्यते । अनेनापि प्रकारेण स्वर्गप्राप्तिरेवोक्ता भवति । अथवाऽमर इव लोक्यते लोके ।
___ अर्थवादश्चायं नात्र स्वर्गः फलत्वेन विधीयते । नित्यानां फलाभावात्काम्यानां च ५ नानाफलश्रवणात् । तेन स्वर्गप्राप्त्या शास्त्रानुष्ठानसंपत्तिरेवोच्यते । लक्षणया यदर्थ कर्मण्यनुष्ठानं तत्संपद्यत इत्यर्थः । तत्र नित्यानां प्रत्यवायानुत्पत्तिर्विध्यर्थसंपत्तिर्वा प्रयोजनम् । काम्येषु तु यथासंकल्पितान्यथाश्रुतं संकल्पितान् । प्रयोगकाले यस्य कर्मणो यत्फलं श्रुतं तत्संकल्प्य अभिसंधाय मनसा कामयित्वेदमहमतः फलं प्राप्नुयामिति । ततः सर्वान्कामा
काम्यानर्थान्समश्नुते प्राप्नोति । अतः परिहृता संकटापत्तिः, यतो न सर्वविषयः कामो १० निषिध्यते । किं तर्हि ? नित्येषु, फलाभिलाषलक्षणः । साधनसंपत्तिस्तु काम्यैव । ___ब्रह्मवादिनस्तु सौर्यादीनां निषेधार्थ कामामंतेति मन्यन्ते । फलार्थितया क्रियमाणा बन्धात्मका भवन्ति । निष्कामस्तु ब्रह्मार्पणन्यायेन कुर्वन्मुच्यते । तदुक्तं भगवता कृष्णद्वैपायनेन ‘मा कर्मफलहेतुर्भूः' (भ.गी.अ.२ श्लो. ४७)। तथा “साधनानामकृत्स्नत्वान्मौ
ात्कर्मकृतस्तथा । फलस्य चाभिसंधानादपवित्रो विधिः स्मृतः” इति । बहवश्चात्र १५ व्याख्याविकल्पा असारत्वात्तु न प्रदर्शिताः ॥ ५॥
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ॥
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥६॥ कोऽस्यामिसंबन्धः यावता धर्मोऽत्र वक्तव्यतया प्रतिज्ञातः स च विधिप्रतिषेधलक्षणः । तत्र न वेदस्य धर्ममूलता विधेया । वेदो धर्ममूलत्वेन ज्ञातव्यो धर्मप्रामाण्य २० आश्रयणीयः, अन्तरेणैवोपदेशं तत्सिद्धेः। न हि मन्वाद्युपदेशसमधिगम्यं वेदस्य धर्ममूलत्वम्। अपि तु अबाधितविषयप्रतीतिजनकत्वेनापौरुषेयतया च पुरुषसंसर्गदोषैरपि मिथ्याभिधानाशङ्काभावात् , स्वतश्च शब्दस्यादुष्टत्वात्प्रत्यक्षवत्स्वतःप्रामाण्यसिद्धिः । अथोच्यते । न्यायतः सिद्धं वेदस्य प्रामाण्यमनूद्य मन्वादिस्मृतीनां तन्मूलता वचनेन ज्ञाप्यत इति तदपि न । तत्रापि पूर्वज्ञानसापेक्षत्वात्स्मरणस्य भ्रान्तिविप्रलम्भादीनां महाजनपरिग्रहादिना २५ निरस्तत्वादतीन्द्रियार्थदर्शनस्याशक्यभावाच्च पुरुषस्य च स्वानुभवसिद्धेर्वेदार्थस्मरणस्य वेदमूलतैवविशिष्यते । न हि वेदविदां कार्यार्थविषयं स्मरणं संभवति । वेदस्य च मूलत्वेन मूलान्तरकल्पनायाऽनवसरः।
१फ-ख-ड-क्ष-संकल्पादभिसंधाय । २ ड-कामात्मनेति । ३ अ-क-ख-ड-क्ष-प्रतिज्ञातव्यः । अ-क-क्ष-ड-ख-तदपि । ५ ख-ड-क्ष-मूलतयैव ।
For Private And Personal Use Only