________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः
व्यापारान्तरेभ्यो विनिवृत्त्य भोजनं करोमीति ततः कर्मकारणस्थानाधिकारिण आह । 'सज्जीकुरुत रसवतीं संचौरयतेति' । नन्वेवं सति न यज्ञादयः संकल्पमात्राद्भवन्ति अपि तु संकल्पप्रार्थनाध्यवसायेभ्यः; तत्र किमुच्यते 'यज्ञाः संकल्पसंभवाः' इति ? । सकल्पस्याद्यकारणत्वाददोषः । अत एवोत्तरत्र 'नाकामस्य क्रिया काचिदृश्यत' इति वक्ष्यति । व्रतानि । मानसो ऽध्यवसायो व्रतम् । 'इदं मया यावज्जीवं कर्तव्यमिति' यद्विहितम् । यथा स्नातकव्रतानि । यमधर्माः प्रतिषेधरूपाः अहिंसादयः । कर्तव्येषु प्रवृत्तिः, निषिद्धेभ्यो निवृत्तिः; नान्तरेण संकल्पमस्ति ॥३॥
अकामस्य क्रिया काचिदृश्यते नेह कर्हिचित् ॥
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥ ४ ॥ १० पूर्वेण शास्त्रीये प्रवृत्तिनिवृत्ती संकल्पाधीने व्याख्याते । अनेन लौकिकेषु कर्मसु
तदधीनतोच्यत इति विशेषः। नेह लोके कर्हिचित्कदाचिदपि जाग्रदवस्थायां किंचिदनुष्ठेयत्वेनानिच्छतः संभवति । यत्किचिल्लौकिकं वैदिकं वा कुरुते कर्म विहितं प्रतिषिद्धं च तत्सर्व कामस्य चेष्टितम् ॥ ४ ॥
हेतुत्वाच्चेष्टितं कामस्यैवेत्युक्तं तदिदमतिसंकटं, कामात्मता न प्रशस्ता, न चानया विना किंचि१५ दनुष्ठानमस्ति । अत्र प्रतिविधत्ते
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ॥
यथा संकल्पिताश्वेह सर्वान्कामान्समभुते ॥ ५॥ तेषु कामेषु सम्यग्वर्तितव्यम् । का पुनः सम्य॑वृत्तिः ? यद्यथा श्रुतं तत्तथैवानुष्ठेयं नित्येषु फलं नाभिसंधेयम् अश्रुतत्वात् । काम्येषु त्वनिषेधः तेषां तथाश्रुतत्वात्.। फलसाधनतयैव तानि विधितोऽवगम्यन्ते । फलानिच्छोस्तद्नुष्ठानमश्रुतकारणं स्यात् । नित्येषु फलाभिसंधिामोह एव । न ह्यभिसंधिमात्रात्प्रमाणतोऽनवगते फलसाधनत्वे फलमुत्पद्यते । एवं कुर्वन्गच्छति प्राप्नोत्यमरलोकताम् । अमराः देवास्तेषां लोकः खर्गः तन्निवासात् अमरेषु लोकशब्दः स्थानस्थानिनोरभेदात् 'मञ्चाः क्रोशन्तीति' वत् ।
१ फ-कर्मकरण-। २ ख-ड-क्ष-संचरतेति । ३ फ-ख-ड-क्ष-अ-क-संकल्पसाद्यकारणत्वात् । ४ अप्रे ४ श्लो. । ५ [इमौ प्रक्षिप्तौ ] श्लोको.
[असद्वृत्तस्तु कामेषु कामोपहतचेतनः ॥ नरकं समवाप्नोति तत्फलं न समश्नुते ॥ १ ॥ ___ तस्माच्छुतिस्मृतिप्रोक्तं यथाविध्युपपादितम् ॥ काम्यं कर्मेह भवति श्रेयसे न विपर्ययः ॥२॥] ६ख-ड-क्ष-केषु न सम्यग्वृत्तिः ।
For Private And Personal Use Only