________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीगणेशाय नमः॥ ॥ अथ द्वादशोऽध्यायः प्रारभ्यते ॥
चातुवर्ण्यस्य कुस्नोऽयमुक्तो धर्मस्त्वयाऽनघ ॥
कर्मणां फलनिवृत्तिं शंस नस्तत्त्वतः पराम् ॥१॥ आद्योऽर्धः श्लोकः शास्त्रार्थपरिसमाप्तिदर्शनेनाधिकाकांक्षानिवृत्त्यर्थः । कृस्नग्रहणं ५ सामान्यार्थ । एतावन्तः स्मार्ता धर्मा यस्मिन शास्त्रे रहस्यपर्यन्त उपदिष्टाश्च शिष्यमुखेनाचार्यस्यैव कृत्स्नकारिता शास्त्रस्य प्रतिपाद्यते । न विवक्षिता नात्र शिष्याचार्य वस्तुतः प्रतिप्रत्तव्यं ग्रन्थकार एवमं ग्रन्थमेवं विभजति । धर्मशब्दश्च कर्तव्यतावचनो विधिप्रतिषेधसमूहमनुवदति । तेन कर्मफलसंबन्धोऽनुक्त इति इत ऊर्ध्व प्रतिपाद्यते । कृत्स्नो धर्म उक्तत्स्वया विधिप्रतिषेधापेक्षया वचनमुपपन्नं भवति । कस्य पुनः कर्मणः फलसंबन्धो १० जिज्ञास्यते येनोच्यते कर्मणां फलनिर्वृत्ति शंसेति । यावता यानि तावन्नित्यानि शास्त्रनोदितत्वादेव क्रियन्ते न तेषां फलमभिसंधेयं । न हि तानि फलार्थानि यान्यतुल्यानि । तत्रापि प्रतिकर्म प्रायशः फलान्युक्तान्येव “वारिदस्तृप्तिमाप्नोति" 'स्वर्गायुश्च' इत्यादीनि च । यत्रापि नोक्तमिव मन्येत तत्रापि स्वर्गादि साधितमेव । यानि जातकर्मादीनि संस्कारकर्माणि तानि संस्कार्यविशेषोक्तस्य क्रियाफलेनैव फलवन्ति नादृष्टमाकांक्षन्ति । यान्यपि १५ नैमित्तिकानि द्रव्यशुद्धयादीनि चाण्डालस्पर्शनस्नानादीनि तान्यपि दृष्टप्रयोजनान्येव शुद्धये विहितानि क्रियन्ते। अशुद्धैर्व्यवहारप्रतिषेधात् । प्रायश्चित्तानि चानन्तरमुक्तप्रयोजनान्येव । अतो न विद्मः कस्य वास्य कर्मणः फलमभिजिज्ञास्यते । प्रतिषेधानां शरीरजैः कर्मदोषेः कृते तेषामेव वक्ष्यमाणत्वात्। तथाप्रतिषेधानुष्ठानमपि शास्त्रचोदितमेव ।
न च तत्र फलार्थित्वे हि न सर्वविषयोधिकारः स्यात् । अर्थिता वाऽधिक्रियेत। २० उच्यते । नैवात्र तादृशं फलमभिधीयते यत्काम्यते । अनिष्टफलदर्शनमत्र क्रियते । नैव तत्काम्यते । नैव च कश्चिदनिष्टप्राप्तिमिच्छति । अतः सर्वविषयतासिद्धिः। यदप्युच्यते शास्त्राचोदितं प्रतिषेधानुष्ठानं क्रियते अत्यल्पमिदमुच्यते । एवं तत्र नानुष्ठानमिति सर्वमेव शास्त्रनोदितं क्रियते । किन्तु तच्छास्त्रं फलार्थिनः कस्यचित्कर्तव्यतां स्थापयति । कस्यचिदन्तरेण फलं नैमित्तिकत्वेन । इह तु यावज्जीवमिव निमित्तश्रुतेरभावाकिमर्थं प्रतिषिद्धं २५ न क्रियत इत्यपेक्षा प्रत्यवायश्च दृश्यते । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते इति ।
१ र-व्यो । २ र-पद्यते । ३ र-फलं सम्बन्धो । र-ण-अपेक्षायां । ४ फ-तावन्ति । ५ र-चोदिता ।
For Private And Personal Use Only