________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः मनुस्मृतिः।
९०१. कपर्दिन" इत्येवं मन्त्रं संवत्सरमेवमेतां सिद्धिमाप्नुयात् । अन्तरेणापि शाकलहोम तदिदं वैकल्पिकं जपकर्मपूर्वेण शाकलमन्त्रहोमेन प्रायश्चित्तमन्येन वा जपित्वा वामन इत्यूचं सा तु शिष्टेभ्यः सुगमयितव्या ॥ २५६ ॥
महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः ॥
अभ्यस्याब्दं पावमानीभैक्षहारो विशुध्यति ॥ २५७ ॥ ५ महापातकसंयुक्त इति पूर्वपदार्थसंख्याविशेषप्रतिपत्तिरनेनापीति गम्यते । एकैकस्य लघुनः प्रायश्चित्तविधानमनेकेनापि युक्तं । पावमान्यः कृत्स्नमेव मण्डलं दाशतयं " स्वादिष्ठयामदिष्ठया " (ऋग्वेद ६।७।१६) इत्यारभ्य " यत्ते राजञ्छृतं हविः" इति ( ७।५।२८ ) । पदं नाम गवामनुगमनं । गवामनुगमनं नानुव्रज्यामात्रं । किं तर्हि ? परिचर्या । सा च गोनप्रायश्चित्तादनुसंधेया ॥ २५७ ॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितत्रिभिः २५८ ॥ महापातकसंयुक्तस्यैव प्रायश्चित्तान्तरमेतत् । वेदसंहिता मन्त्रब्राह्मणं "पत्रिंशद्रात्रमुपोप्य " इति संहितामरण्ये जपन् प्रमुच्यते ॥ २५८ ॥
ज्यहं तूपवसेद्युक्तस्विरह्नोऽभ्युपयन्नपः ॥
मुच्यते पातकैः सर्वैस्विपित्वाऽघमर्षणम् ॥ २५९ ॥ अपोऽभ्युपयन् जपित्वाऽवमर्षणमिति संबन्धः । अन्तश्चान्तर्नलं जपसिद्धिरेवं स्मृत्यन्तरानुग्रहोऽघमर्षणमंत्रविशेषस्तृच उक्तः ॥ २५९ ॥
यथाश्वमेधः ऋतुराट् सर्वपापापनोदनः ॥
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ २६० ॥ २० स्तुत्यर्थः श्लोकः ॥ २६० ॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः॥
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ २६१ ॥ इयमपि स्तुतिः । ऋग्वेदधारिणो रहस्यप्रायश्चित्तार्था । अन्ये तु " महापातकिसंयुक्त " इत्यारभ्य रहस्यार्थमपीच्छन्ति ॥ २६१ ॥
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ॥ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ।। २६२ ॥
२५
For Private And Personal Use Only