________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
८९९
पूर्वोत्तरप्रकरणामिसंवन्धार्थः ॥ २४७ ॥
सव्यात्दृतिप्रणवकाः प्राणायामास्तु षोडश ।।
अपि भ्रूणहणं मासात्पुनंत्यहरहः कृताः ॥ २४८ ॥ मुखनासिकासंचारी वायुः प्राणस्तस्यायामो निरोधः । स चोभयपथा प्राणप्रवृत्तेबहिः क्रमतोऽपानप्रवृत्तेर्वा यद्रेचकारख्यं प्रसिद्धं । व्यात्दृतयः सप्त प्रणव ओंकारो ५ व्यातिभिः प्रणवेन च सह प्राणायामाः कर्तव्या इति । षोडशेत्यावृत्तिसंख्यानं । कीदृशः सहभावः । केचिदाहुः प्राणायामं कृत्वा व्यात्दृतिः प्रणवजपः प्रत्यावृत्ति कर्तव्यः । अन्ये त्वाहुः श्वासनिरोधकालेन ध्यातव्याः । किंपरिमाणः प्राणायामानां कालो यावता नातिमहती श्वासनिरोधनपीडा जायते कुंभकरेचकपूरकाश्च प्राणायामाः स्मर्यन्ते । तेन श्वासनिरोधमात्रं यथाऽप्रमाणं नासिद्धेरिति । असाध्यतयैव परिमाणानामपि १० भ्रूणहनमपि शब्दात्तत्समेषु ॥ २४८ ॥
कौत्सं जत्वाप इत्येतद्वासिष्ठं च प्रतीत्यूचम् ॥
माहित्रं शद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ २४९ ॥ कुत्सेन ऋषिणा दृष्टं प्रोक्तं कौत्सं । " अपनः शोशुचदरम्" इत्यष्टर्च बह्वचे पठ्यते ( १।७१) । वासिष्ठं च प्रतीत्यूचं तिस्त्र ऋचः समात्दृतास्त्यचं । प्रतीति- १५ सूक्तादिप्रतीकारार्थ चेति । " प्रतिस्तोमेभिरुषसं वसिष्ठा" इत्येतत् ( ५।५।२७), " माहेंद्रं माहित्रीणाम्" इति ( ८1८।४३ ) तृचमेव । महितृशब्दोऽस्मिन् सूक्तेऽस्तीति विमुक्तादिप्रक्षेपात् । अक्रतुऋचो ये तु माहेन्द्रमिति पठन्ति तेषां " महां इन्द्रो य
ओजसे " ( ५।८९) इत्यष्टचत्वारिंशतं पयःसूक्तमाहुः । शुद्धवत्यश्च “ एतोन्विन्द्र स्तवाम शुद्धं शुद्धेन " ( ६।६।३१ ) इति । अत्रापि शब्दस्तत्समानार्थः ॥ २४९॥ २०
सकृजप्त्वाऽस्य वामीयं शिवसंकल्पमेव च ॥
अपत्दृत्य सुवर्ण तु क्षणाद्भवति निर्मलः ॥ २५० ॥ अत्र सकृत्ग्रहणात् पूर्वत्र पाठावृत्तिः प्रतीयते । सा च समाचारादन्यत्र दर्शनाच्च । त्रिपित्वाऽघमर्षणमित्यत्रापेक्षायामधिकृतेन संबन्धः । अस्य वामशब्दोऽस्मिन् सूक्तेऽस्तीति मतौच्छःसूक्तनाम्नोरिति शब्दव्युत्पत्तिः “ अस्य वामस्य पलितस्य होतुरिति ” २५ ( २।३।१४) द्वापंचशदृचं सूक्तं शिवसंकल्पमपि " यज्जाग्रतोदूरमुदति" इति वाजसने षडचम् ॥ २५० ॥
हविष्यन्तीयमभ्यस्य न तमं ह इतीति च ॥ जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥२५१ ॥
For Private And Personal Use Only