SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९८ मेधातिथिभाष्यसमलंकृता । [एकादशः स्तेनापि तपःपूर्व कृत्वा ग्रन्थः प्रणेतव्यः । ऋषीणामपि यत्तादृक्त्वं वेदाः प्रादुर्भवन्ति तत्तपसैव ॥ २४३ ॥ ___* इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते ॥ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ।। २४४ ॥ तपस्तुत्युपसंहारः । यदेतत्तपसो महाभाग्यमहाफलत्वमुक्तं त्तद्देवाः प्रचक्षते न केवलं मनुष्या एव । सर्वस्यास्येति जगन्निदर्शयति कृत्स्नस्य जगतः पुण्यमुद्भवं शुभजन्मतपसः सकाशात्पश्यन्तः ॥ २४४ ॥ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ २४५ ॥ वेदाभ्यासादीनां नित्यानां कर्मणां पापप्रणोदनार्थताधिकारान्तरत्वेनोच्यते । अनिर्दिष्टप्रायश्चित्तानामप्रत्ययकृतानां प्रतिभूतानां चैतद्विज्ञायते । अन्ये त्वाहुर्यदेवोक्तं " ब्राह्मणस्य तपो ज्ञानम्" इति तपोविधानेन कर्मान्तरनिवृत्तिमाशङ्कमानस्य वचनं इदमपि तथैव विज्ञेयं । अनुसंधानार्थ क्षमाग्रहणम् । सर्वात्मगुणप्रदर्शनार्थ । महापातकान्यपीति । अपिशब्दाच्छुतिः प्रतीयते । न महापातकनिवृत्त्यर्थता न चाकस्मात्स प्रवर्तित इति तथा १५ प्रदर्शितैर्विषयैर्विज्ञायते ॥ २४ ॥ यथैधस्तेजसा वन्हिः प्राप्तं निर्दहति क्षणात् ॥ तथा ज्ञानाग्निना पापं सर्व दहति वेदवित् ॥ २४६ ।। ज्ञानप्रशंसेयं । विदुषः स्वल्पेन प्रायश्चित्तेन शुद्धिरित्यस्मिन् प्रकरण आज्ञायते । ज्ञानं च सरहस्यं वेदार्थविषयं ज्ञेयं । प्रायश्चित्तविधिज्ञानं केवलं शुद्धये प्रयोगार्थत्वात् २० न ह्यन्यथाप्रयोगोपपत्तिः । यस्तु देवादिसत्तत्वविज्ञानं रहस्याधिकारज्ञानं च तस्याकामा र्थत्वाद्युक्तं " तद्धि ताः पापनिष्क्रियाः " । आह च “ यथा पुष्करपलाश आपो न श्लिष्यन्ति एवमेवं विदि पापं कर्म न श्लिष्यतीति " । एधो दार्विन्धनं यथा शुष्कदारु चाग्नौ क्षिप्तं क्षिप्रं दह्यते न त्विषा एवं ज्ञानमग्निरिव पापस्य दाहकत्वाद्विनाश सामान्यादेवमुच्यते । वेदविदिति ज्ञानं विशिष्यते । तेन तर्ककलाकाव्यादिज्ञानमपास्तं २५ भवति ॥ २४६॥ इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि ।। अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ।। २४७ ।। * ब्रह्मचर्य जपो होमः काले शुद्धाल्पभोजनं ।अरागद्वेषलोभाश्चतप उक्तं स्वयंभुवा ॥१॥ १ण-अथैव । २ ण-कृत्स्नं पादं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy