SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । ८९७ १० महापातकिनश्चैव शेषाश्चाकार्यकारिणः ॥ तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ २३९ ॥ उक्तार्थमेतत् ॥ २३९ ॥ कीटाचाहिपतङ्गाश्च पशवश्च वयांसि च ॥ स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।। २४० ॥ ५ तपस्तुतिरियं । येन तपसा सर्वत्र गमनात्सर्वे स्वर्गमासत इति । यथाऽनधिकृता अपि कीटादयस्तपोबलादिवं गच्छन्ति किं पुनर्विद्वांसो ब्राह्मणा आलंबनं कीटादीनां जातिसहजं दुःखं तदेव तपः । तेन च क्षीणकल्मषाधिकारिजन्मान्तरकृतेन सुकृतेन दिवं यान्ति ॥ २४० ॥ यत्किचिदेनः कुर्वन्ति मनोवाङ्मृतिभिर्जनाः ॥ तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ २४१ ॥ वाङ्मनःकायकृतस्य जपहोमाभ्यां शुद्धिः स्मयते । तत्र तपसा निवृत्तिः स्यात् । अत इदमारभ्यते तदपि तपसानूद्यते ॥ २४१ ॥ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ॥ इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥ २४२ ॥ १५ काम्यकरिंभे पूर्व तपः कर्तव्यं । तदपि तावदनूद्यते । तथा चोक्तं "प्रथम चरित्वा शुचिः पूतः कर्मण्यो भवति " । यत्र तावद्दीक्षोपशमनाद्यङ्गं तत्र तदेव तपः एकस्तनं व्रतमुपेत्युपयन्निति विहितं चेति तप एव । यत्रापि शान्तिकपौष्टिकादौ गृह्यादिविषये तत्रापि पूर्व तपः कर्तव्यमिति श्लोकार्थः । ब्राह्मणग्रहणं योगाधिकृतकाममात्रप्रदर्शनार्थ । उक्तं च २० " नातप्ततपसः पुंसो हविर्गृह्णन्ति देवताः । नागृहीतहविष्यस्य कामः संपद्यते क्वचित्" । यद्यपि न देवता तत्फलं तथापि योगस्य देवतया विनाऽनिष्पत्तेर्देवताः संवर्धयन्तीत्युच्यते । हविग्रहीतृत्वं च न पुनर्देवतानां च स्वीकारः । किं तर्हि संप्रदानतयोद्देशेऽनिराकरणम् ॥ २४२ ॥ प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः ॥ तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ २४३ ॥ मनोर्येयं प्रतिष्ठा ग्रन्थस्य सा तपसः सामर्थ्यजैव । अन्योऽपि यो ग्रन्थप्रतिष्ठाकाम१ गौतमीये अ. २६ सू. २१ । २ ण-योगस्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy