________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[एकादशः
औषधान्यगदो विद्या दैवी च विविधा स्थितिः ॥ तपसैव प्रसिद्धयन्ति तपस्तेषां हि साधनम् ॥ २३७ ॥
औषधानि रसायनानि । अगदा व्याध्युपशमभेषनानि । विद्या भूतविशेषादिविषया । देवी स्थितिरणिमादिशक्तियोगोऽनेकप्रकारः ॥ २३७ ॥ __ यहुस्तरं यदुरापं यदुग यच्च दुष्करम् ।।
सर्व तु तपसा साध्यं तपो हि दुरतिक्रमम् ।। २३८ ॥
दुःखेन यत्तीर्यते तदुस्तरं । व्याधिनिमित्तामहत्यापदतिबलेन शत्रूणां यदुपरोधः । एतदपि तपस्विनां सुसाध्यम् । कृच्छ्रेण यत्प्राप्यते तदुरापमाकाशगमनादि । दुर्ग मेघपृष्ठा
राहेणादि । टुष्करमभिशापवरदानादि । अन्यथा त्वकरणं यथा संवर्तस्यान्यदेवतासृष्टिः। ० सर्वमेव तपसा सिध्यति । श्लोकत्रयेण संयोगपृथक्त्वादभ्युदयार्थता कृच्छ्राणामुच्यते ।
___ननु च प्रायश्चित्तानां प्रकृतत्वात्कृछ्रस्तुतिस्तच्छेषतयैव न्याय्या नाभ्युदयार्थिनो विधेयतया । न च दुस्तरादयोऽर्थवादतया न संभवन्ति । एवंविधः महांतः कृछ्राय दुस्तरमपि समुद्रादि तीर्यते । किं पुनर्दष्प्रापं नापनोत्स्यते । उच्यते । गृह्यस्मृतिषु सामविधौ चाननुक्रम्यैव प्रायश्चित्तानां कृविधिः समाम्नातः । तत्र चानारभ्याधीतत्वाद्युक्तैव अभ्युदयार्थता । आह च ( गौतमसू. अ. १६।२४) “अर्थतान् कृांश्चरित्वा सर्वेषु वेदेषु ज्ञातो भवतीति"। वेदेषु ज्ञात इत्यनेन नियमपूर्वकं वेदाध्ययनानु. छानाद्यत्फलं तत्सिद्धमाह । यस्तु निष्फलो ग्रहणार्थोऽध्ययनविधिः स एकवेदाध्ययनेनात्रापि संपद्यते । एवमनेकवेदाध्ययनं तु धर्मायैवेत्युक्तं । वेदेषु ज्ञात इत्यनेना
शेषयागफलावाप्तिमाह । यजमानो हि वेदैर्ज्ञायते । यो ह्यर्थवादतया संभवति न प्राय. २० श्चित्तानिदानभावं गच्छद्भिरिहापि स्वधर्मनिवृत्तिमाशङ्कमानेन "ब्राह्मणस्य तपोज्ञानम् "
इति यदुक्तं तदभ्युदयार्थत्वे संभवति न प्रायश्चित्तानि पापप्रमोचनार्थानि काम्यानि फलसाधनानि । तत्र भिन्नविषयत्वात्कुतः प्रायश्चित्तैर्निवृत्तिराशङ्कयते । अभ्युदयार्थत्वे तु कृच्छ्राणामन्येषां च कर्मणां तुल्यत्वाद्युक्ता निवृत्त्याशङ्का । तथा महापातकिनश्चेति
पापप्रमोचनार्थेऽपि चोद्यते यहुस्तरमित्यादिना । अभ्युदयार्थतेति भिन्ने एव ते वाक्ये । २५ तेन च प्रकरणस्य बाधो युक्त एव । तथा च द्वैपायनमुनिप्रभृतयस्तपःप्रभावाबुद्धीविचित्रास्ता
वक्ष्यन्ते । तस्मात्सर्वफलानि तपांसि । न च यथा सर्वार्थान्यपि वैदिकानि कर्माणि नियतफलानि सर्वेभ्यो दर्शपूर्णमासौ सर्वेभ्यो ज्योतिष्टोम इत्याधिकारात्तत्र सर्वत्र यान्येव वेदे स्वर्गादीनि फलानि श्रुतानि तदपेक्षयैव सर्वार्थता न तु ऋध्यतिशयातिभोगेनैवमिति । किं तर्हि यहुस्तरमित्यादि यथा निदर्शितम् ॥ २३८ ॥ १फ-स्वी।
For Private And Personal Use Only