________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः ।
व्रतं न हातव्यं तस्मादायकृताव्यतिक्रमाद्विमुक्तिमिच्छन् मोक्षमिच्छन् पुनर्न कुर्यादतश्चैतदुक्तं भवति । कृतेऽपि प्रायश्चिते न विमुच्यते । यदि पुनः समाचरति न च निष्कृतौ कृतायामकृतायामपि मोक्षो युक्तोऽतो मुक्तस्य मुक्तिमन्विच्छन्निति नोपपद्यते । तस्मादाधिक्याय पुनर्वचनम् ॥ २३२ ॥
यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ॥
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ २३३ ॥ असत्यां चित्तशुद्धौ विहितातिरेककरणार्थमिदं दुष्कृते कर्मण्यलाघवं कापि विचिकित्सा यदि भवति । ततः कृतेऽपि प्रायश्चित्त आत्मनः प्रसादोत्पत्तेरावर्तयितव्यम् । तपोग्रहणं दानादीनामपि यथाविहितदर्शनार्थम् ॥ २३३
तपोमूलमिदं सर्व दैवमानुषकं सुखम् ॥
तपोमध्यं बुधैः प्रोक्तं तपोन्तं वेददर्शिभिः ।। २३४ ।। मनुष्यलोके यत्सुखमाभिमानीकं जनपदैश्वर्यादि यच्चैहिकमरोगित्वादि यच्च सांसर्गिक धनपुत्रादि संपत् यथाभिमतकांतादिविषयोपभोगलक्षणमैन्द्रियकं यच्च वेदेषु (ब्रह्मवल्ल्यां (१२) “ मनुष्याणां शतमानन्दाः स एक आनानदेवेषु"इत्यादि तस्य सर्वस्य तपो मूलं उत्पत्तिकारणं । तपोमध्यमुत्पन्नस्य स्थितिमध्यावस्थाऽतोऽवसानं तदपेक्षयेति वेदविदां १५ दर्शनं । यथैव कर्माणि स्वर्गग्रामाद्यभिप्रेतफलसाधनान्येवं तपो विज्ञेयम् ॥ २३४ ॥
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ॥
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ २३५ ।। नैवं मन्तव्यं तपसि समर्थोऽत एव सर्वफलसिद्धिमवाप्स्यामि विध्यतिशययोगाच्च विहिताकरणेऽपि न द्रव्येण कथं मेऽनुष्ठेयो धर्म इति । यतो ब्राह्मणस्य तपो ज्ञानं । २० ज्ञानं वेदार्थावबोधः । तस्मिन्नसति न तत्फलसाधनमतो ज्ञानमेव तप उच्यते । महत्यपि व्रतसिद्धिः । तेन स्वधमों न हातव्य इत्येवमर्थोऽयं श्लोकः । ज्ञानग्रहणं स्वाध्यायग्रहणाध्ययनात्प्रभृति सर्वस्वधर्माणां प्रदर्शनार्थमेवं तपः क्षत्रियस्येति । शूद्रस्य सेवनं द्विजातीनामिति शेषः । तत्सेवाया विहितत्वात् । अस्य चानुवादत्वात् ॥ २३५ ॥
ऋषयः संयतात्मानः फलमूलानिलाशनाः ॥
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ २३६ ॥ अतीन्द्रियज्ञानातिशयासादनमपि मुनीनां तपोबलेनैवेत्यर्थः । वाडयनःकायनियमात् संयतात्मानः फलमूलेत्याहारनियमः । ईदृशेन तपसा त्रैलोक्यं प्रत्यक्षवत्पश्यति ॥२३६॥
१ण-महितव्यं । २ ण-अहनि । ३ ण-मुनीनीत । ४ ण-बह्मज ।
For Private And Personal Use Only