SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९३ अध्यायः मनुस्मृतिः। सावित्री " तत्सवितुरिति " गायत्री सवितृदेवत्वाज्जपचोदनासु सावित्रीशब्देन तस्याः सर्वत्राधिकारः । पवित्राण्यघमर्षणपावमानीपुरुषसूक्तादीनि शुक्रियाध्यायाननरौहिणेयादीनि सामानि सर्वकृ षु आहतो यत्नवान् । सर्वेष्वित्यादिश्लोकपूरणस्तथाविधस्यैवाधिकारात् ॥ २२५ ॥ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ॥ अनाविष्कृतपापांस्तु मन्त्रै)मैश्च शोधयेत् ॥ २२६ ।। आविष्कृतं प्रकाशं लोकविदितमेनः पापं येषां । एतैःकृच्छैः शोध्याः। ये तु रहस्यपापास्तेषां न कृतपांसि । किंतर्हि मन्त्रहोंमैश्च शोधयेत् । यदि तावत्परिषदः । ननु रहस्येषु नास्ति परिषद्गमनमाविष्कृतं न स्याद्विदुषां हि तत्राधिकारः। उच्यते। न प्रायश्चित्तमनागतं शोधयेदित्युच्यते । अपि तु शास्त्रव्याख्यानकाले शिष्याणामुपदेशादिदं १० रहस्येषु शोधनं बोद्धव्यमिति ॥ २२६ ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ पापकन्मुच्यते पापाचथा दानेन चापदि ।। २२७ ॥ विप्राणां विदितेऽन्येषामप्येवंकर्माऽस्मीति प्रकाशयेत् । एतत्ख्यापनमनुतापः । तस्मात्तापेन धिङ्मां महदकार्थमकरवमनर्थो मे दुष्कृतकारिणो जन्मन्येवमादिः चित्त- १५ परिखेदः । अध्ययनं सावित्र्या जपो वेदपाठो वाहिंसायामन्यत्रासमर्थस्य तपसि दानं । एतदाहेदानीं न चापदीति प्रक्रांततपसः आपदि पीडायामनिग्रहणे दानम् ॥ २२७ ॥ यथा यथा नरोऽधर्म स्वयं कृत्वाऽनुभाषते ।। तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ २२८ ॥ ख्यापनविधेरर्थवादः । नरोऽधर्ममिति नञः प्रश्लेषो धर्मस्य स्वयं ख्यापनं निषिद्धं। २० न गुणाः स्वयं वाच्या इति प्रकृतश्चाधर्म एव तेनाधर्मेणेति श्रूयत एव ॥ २२८ ॥ यथा यथा मर्नेस्तस्य दुष्कृतं कर्म गर्हति ॥ तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ २२९ ॥ शरीरमन्तरात्मैव न भूतात्मा पुण्यपापयोस्तदाश्रयात् । उपचाराद्धि आत्मनः शरीरशब्दोऽयं द्रष्टव्यः । अनुतापार्थवादोऽयं गर्हाख्याता ॥ २२९ ॥ कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ॥ नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः २३० ॥ १ण-मे। २१-कस्यायंशोधयेदित्यर्थः । ३ फ-तावत्य परिषदः । ४ ण-विषदां। ५ ण-नरः स्वस्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy