SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८९० १० www. kobatirth.org १५ मेधातिथिभाष्यसमलंकृता । एकैकं ग्रासमश्नीयात्र्यहाणि त्रीणि पूर्ववत् ।। त्र्यहं चोपवसेदंत्यमतिकृच्छं चरन्द्विजः ॥ २१३ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूर्ववदिति प्राजापत्यविधिमतिदिशति । एष्वेव कालेष्वेकैकं ग्रासमश्नीयात् ॥ २१३ ॥ तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ॥ प्रतियहं पिवेदुष्णान्सकृत्स्नायी समाहितः ।। २१४ ॥ तेष्वेव कालेषु जलादीनि यावता नातितृप्तिर्भवति । क्वचित्परिमाणं पठ्यते “ अपां पिबेत्तु त्रिपलं पलमेकं तु सर्पिषः । पयः पिवेत्तु द्विपलं त्रिपलं चोप्णमारुतं " ॥ सकृत्स्नायीति त्रिरह्नः त्रिर्निशायामित्यस्यापवादः ॥ २१४ ॥ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ पराको नामकृच्छ्रोऽयं सर्वपापापनोदनः ।। २१५ ॥ [ एकादशः यतात्मा संयतेन्द्रियो गीतादिशद्वश्रवणेष्वनभिलाषी । अप्रमत्तस्तत्परः । अर्थवादोऽयं । सर्वकृच्छ्रेष्वस्य धर्मस्य विहितत्वात् ॥ २१५ ॥ एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्रे च वर्धयेत् ॥ उपस्पृशं स्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ २१६ ॥ चतुर्दश्यामुपोष्य स्वयंभूतायां पौर्णमास्यां पंचदश ग्रासानश्नीयात् । ग्रासप्रमाणं चास्याधिकारेण ग्रासानुमंत्रणं च । “ आप्यायस्व सन्ते पयसीति " स्मृत्यन्तरोक्तो विधिरपेक्षितव्यः। एकशास्त्रत्वात्सर्वस्मृतीनामसति विरोधे समग्रं योज्यं । विरोधे तु विकल्पः । प्रतिपदमारभ्यैकैकं ग्रासं दिवसे दिवसे ह्रासयेत् । प्रतिपदि चर्तुदशद्वितीयस्यां त्रयोदशेत्यादि यावच्चतुर्दश्यामेको भवति ततोऽमावास्यायामुपोष्य प्रतिपद्येकं ग्रासमश्नीयात् । द्वितीयस्यां २० द्वावेवमेकैकं वर्धयेद्यावत्पौर्णमास्यां पञ्चदश भवन्ति । उपस्पृशन स्नानं कुर्वन् त्रिषवणं प्रातर्मध्यंदिनापराह्णेषु “ त्रिर्निशायामिति " निवर्तते विशेषविहितत्वात् ॥ २१६ ॥ एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे || शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ २९७ ॥ For Private And Personal Use Only यवमध्यमेऽमावास्यायामुपोष्य प्रतिपद्येको ग्रासः । द्वितीयस्यां द्वौ यावत् २५ पौर्णमास्यां पंचदश । पुनः प्रतिपदमारभ्य कृष्णपक्ष एकैकग्रासापचयो यावदमावास्या - मुपवासः ॥ २१७ ॥ १ ण-स्वरोभूतायां । २ ण - एवमेव । ३ ण ण व्रतं ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy