SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता । [ एकादशः अवर्य त्वब्दशतं सहस्रमभिहत्य च ॥ जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ २०६॥ अवगुरणप्रतिषेधोऽयं परिशिष्टोऽर्थवादो जिघांसया हन्तुमिच्छया दण्डादिकमुद्यम्य संवत्सरशतं नरकेष्वास्ते । अभिहत्य प्रहारं दत्वा सहस्रं संवत्सराणां ५ जिघांसया न परिहासतः ॥ २०६॥ शोणितं यावतां पासून्संगृह्णाति महीतले ॥ तावन्त्यद्वसहस्राणि तत्कर्ता नरके वसेत् ॥ २०७॥ ब्राह्मणस्य रुधिरदण्डादिप्रहारेण भूमौ पतितं यावत्पांशन् रजोवयवान् संगृह्णाति तावन्ति संवत्सरसहस्राणि तस्य जनयिता नरके व्रजेद्वसेत् । अयमप्यर्थवादः ॥२०७॥ अवगूर्य चरेत्कृच्छ्रमतिकृच्छू निपातने ॥ कृच्छ्रातिकृच्छौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ २०८ ॥ पूर्वस्य प्रायश्चित्तमेतत् । ब्राह्मणरुनः कृत्वेति शोणितोत्पादनादन्यत्रैतत् । यदि वा तेनेदं विकल्पते ॥ २०८ ॥ अनुक्तनिष्कृतीनां तु पापानामपनुत्ती ॥ . १५ शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ २०९ ॥ अनुक्ता निष्कृतयः प्रायश्चित्तानि येषां विकर्मणां यथा चाण्डालादिप्रतिलोमवधे तत्र कल्पयेत् । ननु चात्राप्युक्तं " किंचिदेव तु विप्राय दद्यादस्थिमतां वध" इति अनस्थिसाहचर्यात्क्षुद्रनन्तुप्रायास्तत्रास्थिमन्तो गृह्यन्ते । महाकायानां तु नैष विधिः। ननु चत्वारो वर्णा " नास्ति पंचम " इति शूद्रप्रभेद एवं प्रतिलोमाः । यदि नाम पंचमो वर्णो न जातो. २० नैतावता शूदैस्तैर्भवितव्यं तेषामपि लक्षणस्य नियतत्वात् “समाननात्यामूढायां जातः शूद्र" इति वर्णसंकरजाश्चेत्तस्मान्न शूद्रहत्याप्रायश्चित्तं । नापि किंचिदेव तु विप्राय' इत्यन्यस्तत्र कल्पनाया अनवसरः। शक्तिः प्रायश्चित्तिनस्तपास। तथा किमयं तपसि समर्थ उत दाने। पापं च हिंसाया विहितप्रायश्चित्तमेव । अभक्ष्यभक्षणे तदेव । अथ पापस्य गुरुलघुभावोपेक्षणीयः । ननु च गुरुलघुभावः पापस्य कथं ज्ञायते प्रायश्चित्तमहत्वादिति चेत् अनुक्तप्रायश्चित्तविषयेयं कल्पना । सत्यम् । अर्थवादे दोषातिशयश्रवण द्गुरुत्वात् तथा बुद्धिपूर्वानुते च । किंच नेदमनुक्तनिष्कृतिविषयमेव प्रकल्पयेत् । उक्तेऽपि कल्पना कार्या । कुत एतत् दण्डप्रायश्चित्तयोस्तुल्यत्वात् । दण्डेन चोक्तानुक्तविषयमनुज्ञायते। किंचैतस्मिन् व्यतिक्रये गुरुलघूनामुपदेशात्तत्रावश्यंभावनीया कल्पना । अत उद्दिष्टानुद्दिष्टसर्वशेषोऽयम् ॥ २०९ ॥ १श्लो. १४१। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy