________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
अनपेक्ष्य दृष्टमदृष्टं राजरथ्यादिषु त्यागे नादेयं मम यो गृह्णाति स गृह्णात्वित्याद्यभिधाय क्षिपेत् श्वभ्रे गर्ते नद्यादिषु वा जपतपसी वक्षत्युपदिष्टश्लोके । अन्ये तु ब्राह्मणशब्दस्थाने वर्णशब्दं पठित्वैवं व्याचक्षते। यस्य वर्णस्य द्विजातेः शूद्रस्य वा धनार्जनोपायता यत्प्रतिषिद्धं तत्तस्य गर्हितं । यथा “ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् " इत्यादि । तेन येऽर्जयन्ति धनं कर्मणा तस्योत्सर्गजपतपांसि त्रीणि समुच्चितानि प्रायश्चित्तानि ब्राह्मणस्यासत्प्रतिग्रह उत्तरो विशेषविधिः ॥ ९९३ ॥
८८५
जपित्वा त्रीण सावित्र्याः सहस्राणि समाहितः ॥
१९४ ॥
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ १९४॥ त्रीण सावित्रीसहस्राणि प्रत्यहमिति केचिदाहुः । अन्ये तु मासं त्रीण्यभिसंबध्नंति । अतश्च प्रत्यहमेकैकं शतं गोष्ठ इति वासस्थानम् ॥ उपवासकृशं तं तु गोत्रजात्पुनरागतम् ॥ प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १९५ ॥ कार्यवचनात्स्वल्पं पयःपानमाह । प्रणतं जानुभ्यां स्थितं भुवि ते विद्वांसो ब्राह्मणाःपृच्छेयुस्तं हे सौम्येच्छसि सत्यमिति । अथ पुनरपि शास्त्रमवगणय्य न प्रवर्तितव्यमसम्प्रतिग्रहलेोभेनेति ॥ १९५ ॥
सत्यमुक्त्क्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ॥ गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ।। १९६ ॥
पृष्टेन वा तेन वक्तव्यं सत्यमिति । येन मार्गेण गावो विचरन्ति नदीप्रखवणादिजलं पातुं तस्मिंस्तीर्थे तरणप्रदेशे ते ब्राह्मणाः परिग्रहमस्य कुर्युस्ते हि हस्तारोपणेनान्तिकवेशमानयेयुः ॥ १९६ ॥
For Private And Personal Use Only
१०
१५
२०
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रर्व्यपोहति ॥ १९७ ॥
व्रात्याः सावित्रीपतितास्तेषां व्रात्यानां व्रात्यः स्तोमः क्रतुर्विहितस्तेन ये याजयन्ति आविज्येनोपदेष्टृत्वेन च परेषां मातापितृगुरुवर्जमंत्यकर्म श्मशानादि । अभिचारं श्येननिधनादि । अहीने च द्विरात्रिकं कृच्छ्रर्विशुध्यति । अन्ये त्वाहुनीयमभिचाराहीनयो- २५ र्यजमानस्य विधिः । कस्य तर्हि ? ऋत्विजां । तथा च त्रात्यानां याजनमितीदृश एवाधिकारः । यजमानस्य तु विधिलक्षणाप्रवृत्तिस्तस्याः प्रतिषेधाभावे कुतः प्रायश्चितं । भवत्वहीने शास्त्रतः प्रवृत्तिः। श्येनादौ तु कथं । न हि शत्रून् मारयेदिति नोदनाऽस्ति ।
१ अ. १० श्लो. ११७ । २ ण-यो याजयति ।