SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता। [ एकादशः बालनांश्च कृतनांश्च विशुद्धानपि धर्मतः ।। शरणागतहतश्च स्त्रीहंतश्च न संवसेत् ॥ १९० ॥ शरणागतो यः शत्रुभिरभिहन्यमानो बलवताऽन्येन वोपदूयमानः परित्राणार्थ किंचिदन्यमभिधावेत् 'त्रायस्व मामिति । एवं कृतदोषो विद्वान् समुपधावेत् 'उद्धर मां देहि प्रायश्चित्तमिति ' शरणागतः । कृतमः कृतमुपकारं विस्मृत्य योऽपकाराय यतते यो व कृतोपकारं पुनर्विनाशयति तस्यैवोपकृतस्यापकार्य उद्यच्छति । यद्यप्येषा शब्दव्युत्पति. स्तथापि लोकप्रसिद्धेर्यत्रोपकर्तुरपकारे वर्तते स कृतघ्नः । अत्र जाति पेक्षते बालादि. स्वरूपमेव कारणं । स्त्रियो व्यभिचारिण्योऽपि । यद्यपि तासां स्वल्पं प्रायश्चित्तं तथापि वाचनिकः संवासः प्रतिषेधः । संवासः संगतिस्तद्गृहनिवासश्च ॥ १९०॥ येषां द्विजानां सावित्री नानूच्येत यथाविधि ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ।। ॥ १९१ ॥ "आ षोडशाब्राह्मणस्य" इत्यादिनोपनयनकालनियमः कृतः। तदतिकमे प्रायश्चित्तमिदं । गर्भाष्टमात्प्रभृति यावत्षोडशवर्ष ब्राह्मणस्य सावित्री नानूच्येत सावित्र्यनु वचनेनोपनयनाख्यसंस्कारो लक्ष्यते । अस्मिन् काले यापनयनं न क्रियेत एवं १५ " ओ द्वाविंशात् क्षत्रियस्य आ चतुर्विशतेर्विशः" । अत ऊर्ध्व त्रीन् कृाचारयितव्यः। निरुपपदकृच्छ्रश्रवणे प्राजापत्यप्रत्यय इति स्मृतितन्त्रसिद्धिः । अन्ये तु कृच्छ्रातिकृच्छानाहुः कृछ्रेषु कृतेषूपनेतव्या यथाविधीत्यनुवादः ॥ १९१ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥ ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १९२ ॥ विकर्मस्था यथा ब्राह्मणाः शूद्रसेवाद्यभिरताः । यस्य यत्कर्म जीविकाहेतुस्तया तत्तस्य विहितं कर्म । यस्य न विहितं तस्य तद्विकर्म । द्विजातीयस्य विहितं विजातीयस्य विकर्म । ब्रह्मणा परित्यक्ता उपनीता अप्यस्वीकृतवेदा अधीत्य वा वेदमुपविस्मरेयुस्तेषामप्येतत्कृच्छ्रत्रयं प्रायश्चित्तं चिकीर्षतीत्यनुवाद एवायं । इच्छन्नेव यतः प्रवर्तते ॥ १९२॥ यद्गहितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ॥ तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ १९३ ॥ गहितेनेत्यविशेषेऽप्यसत्प्रतिग्रहणेति द्रष्टव्यं । उत्तरत्र विशेषविधेस्तं प्रत्येवोपदिश्यमानत्वात् । मुच्यतेऽसत्प्रतिग्रहादिति । उत्सर्गः त्यागो ममतानिवृत्तिनेन वा । १ अ. २९ श्लो. ३८। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy