SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः - मनुस्मृतिः। पुनरसौ घटः प्रक्षप्तव्य इत्याह स त्वप्सु तं घटं पास्य प्रविश्य भवनं स्वकम् ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्व समाचरेत् ॥ १८७ ॥ यास्वप्सु स्नातास्तास्वेव घटः प्रक्षेप्तव्यः । ततस्तं पुरस्कृत्य तदीयं भवनं प्रविशेयुः । ततो यथापूर्व संभोजनादीनि ज्ञातिकार्याणि प्रवर्तयेयुः । अन्ये तु सकृत् ५ प्रायश्चित्त इति संबध्नन्ति । घटप्रासनं तेनैव कर्तव्यमेषा चाम्य पतितोदकक्रिया नान्यस्य त्याज्यस्य । " त्यजेच्चेत्पितरं राजघातकं च सुयाजकम्" इत्यादेः ॥ १८ ॥ एतमेव विधिं कुर्याधाषित्सु पतितास्वपि ॥ वस्त्रानपानं देयं तु बसेयुश्च गृहान्तिके ।। १८८॥ योषित्सु स्त्रीष्वपि पतितास्वेष एव विधिः। पतितास्वकृतप्रायश्चित्तासु च । १. ताम्यस्तु कृतोदकाम्योऽपि वस्त्रान्नं दातव्यं दानग्रहणात् । वस्त्राने शरीरस्थितिमात्रसंपादिनी दातव्ये न भोगादयः । पानमौचित्यादुदकं । तच्च प्राचुर्याददत्तमपि लभ्यते । वचनं तु परानुरोधादषि स्वातन्त्र्येण वानुर्मासं न देयं । यादृशं च पानं तादृशे एव वस्त्रान्नेऽतो निकृष्टं वस्त्रं चान्नं दातव्यं । तथोक्तं ( याज्ञवल्क्य स्मृ. आ. ७० ) “हताधिकारां मलिनां पिण्डमात्रोपजीविनीं । परिभूतामधःशय्यां वासयेन्द्यमिचारिणी॥” १५ पातित्यहेतवश्च स्त्रीणां य एव मनुष्यस्य यत्तु भ्रूणहनि हीनवर्णसेवायां न च स्त्रीणामधिकं भ्रूणहनीति तत्तुल्यतार्थं न तु परिसंख्यार्थ । तथा च याज्ञवल्क्यः (प्रायश्चित्ते. २९८) "नीचाँभिगमनं गर्भपातनं भर्तृहिंसनं । विशेषपतनीयानि स्त्रीणामेतान्यपि धुवं" || बसेयुः स्वगृहान्तिके प्रधानगृहान्निष्कास्य कुटीगृहे वासयितव्येत्यन्तिकग्रहणं । केचिदाहुः 'प्रायश्चित्तं तु कुर्वतीनामेतद्देयं न त्वन्यथा' तयुक्तं । वस्त्रान्नदानव्यवहारस्य तत्र योगत्वात्। २० प्रायश्चित्ते मिक्षाहारता पयोव्रतं चांद्रायणविधिश्चेत्यादि । न च भैक्षाहारता चानेन विवर्तयितुं शक्या । वृत्तिविधानेन चरितार्थत्वात् । तस्माद्यस्याः प्रायश्चित्तेष्वनधिकारः शकतयाऽतिपुष्टतया वा तस्या अपि वस्त्रादिदानं कर्तव्यमिति श्लोकार्थः ॥ १८८ ॥ एनस्विभिरनिर्णिक्तैर्नार्थ किंचित्सहाचरेत ॥ कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित् ।। १८९ ॥ एनस्विनः प्रकृतत्वात्पातकिनः तैरनिर्णिक्तैरशुद्धैरकृतप्रायश्चित्तैनार्थ किंचिढणदानकर्यविक्रययाजनायुक्तं । निर्णेजनं शोधनं पापापनोदनं । तस्मिन् कृते नैनां जुगुप्सेत कृतप्रायश्चित्तां न कुन्सयेत् ॥ १८९॥ १ गौतमीये अ. २०।१ । २ सां। ३ फ-पा। ४ फ-नैवा । ५ फ-र्थः । (फ-कि। . For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy