SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ www. kobatirth.org मेधातिथिभाष्यसमलंकृता। १ [एकादशः प्रेतवदिति कर्तव्योपदेशोऽयं । दासी प्रेष्योदकुंभ पदा पादेन पर्यस्येत् क्षिपेदिदममुष्मा इति । क्षिप्ते तस्मिन्नहोरात्रमाशौचंयुक्त बान्धवैःसह तथासीरन्नेकत्र स्थाने निवसेयुस्तदहः । दासीग्रहणात् स्वयंकरणं निषेधति । यद्येवं ज्ञात्य॒त्विक्गुरुसन्निधावित्यस्वयं-. करणपक्षे ज्ञातीनां सपिण्डानां च को विशेषो येनोच्यत एतेषां संनिधान एतेन कर्तव्य मिति । यावता सर्व एव सन्निधानमात्रेणोपकुर्वन्ति । तस्यासन्निपात्योपकारत्वात् । नैतदेवं सपिण्डादयः प्रयोजकत्वेन कर्तारः । ज्ञात्यादयस्तु सन्निधाप्यन्ते केवलमदृष्टायेति ॥१८३॥ निवर्तेरैश्च तस्मात्तु संभाषणसहासने ॥ दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ १८४ ॥ कृतोदके यथावर्तितन्यं तथेदानीमुच्यते। संभाषणमितरेतरमुक्तिप्रत्युक्तिरूपो व्यवहारः। १. दायाचं धनं तदपि तस्मै न दातव्यं । लौकिकी यात्रा संगतयोः कुशलप्रश्नादिका विवाहादौ नैमित्ते गृहानयनं भोजनं चेत्येवमादि । ननु च संभाषणप्रतिषेधादेवैषु निवृत्तिः सिद्धे वा। अभ्युत्थानासनत्यागस्यापि निवृत्तिरूपस्य संभवात् । संभाषणं तु शब्दात्मकमेव ॥ १८४ ।। ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्वसु ॥ ज्येष्ठांशं प्राप्नुयाचास्य यवीयान्गुणतोऽधिकः ॥१८५ ॥ ज्येष्ठावाप्यं च यद्वसु । अत्रापि चोद्यते । दायाचदाननिषेधाज्ज्येष्ठप्राप्यवसुनो धनस्य सिद्ध एव निषेधः । केचिदाहुर्गुणतोऽधिकस्य यवीयसस्तदंशप्राप्तयर्थमनूद्यते । अन्ये तु मन्यन्ते । दायाधशब्देन धनमात्रमुच्यते । नान्ववागतमेव । तथा चाभिधानकोशे " दायाद्यं धनमिष्यत" इति स्मर्यते । अतो यत्तस्मात्केनचिहणत्वेन गृहीतं तेनापि तन्न दातव्यं । किं तर्हि कर्तव्यं ? पुत्रभ्रात्रादिरिक्थहारिणामर्पणीयम् । अन्ये तु मन्यन्ते । अविमक्तधनानां दायाद्यधननिषेधः कृते तु विभाग उद्धारस्यैव ज्येष्ठांशस्यैवोच्छेदः । सत्स्वपि पुत्रेषूद्धारं वर्जयित्वाऽन्यस्य पुत्रा एवेशते ॥ १८५ ॥ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ॥ तेनैव सार्धं पास्येयुः स्नात्वा पुण्ये जलाशये ॥ १८६ ॥ कृतप्रायश्चित्तस्येदानीमुदकक्रियोच्यते । तेनैव साध स्नात्वा जलाशये पुण्य२५ स्रवन्त्यां महा-हदे वा प्रभासमानसादौ वा तीर्थविशेषे कृतस्नानोऽपां कुंभ नवं स्वयं पास्येयुः । कुंभग्रहणादासीग्रहणाचात्र पूर्वनोपयुक्तस्य क्रियासु कुंभस्य ग्रहणं उदकेन. पूरयित्वा हरणमुक्तम् ॥ १८६ ॥ १० १-ज्येष्ठत्तिरूप- । २ फ-यद्धनम् । ३ फ-अतोयं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy