________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
८८१
यस्मा उपदिश्यते अतिदेशेन व्यवहारेण कोऽर्थः । अत्रोच्यते । न व्यवहाराः प्रयोजन एव भियन्ते । अपि त्वन्यतोऽपि निमित्तादिह चास्ति प्रमाणतो भेदः । यत्र पतितत्वमभिधाय द्विजातिकर्मभ्यो हानिः पतितस्योदकं कार्यमित्याद्यभिधीयते सकृत्स्वधर्माभिधानादुपदेशः । यत्र तु तत्संबन्धवचनान्नाम्ना लिङ्गसंयोगाद्वा तद्धर्मप्राप्तिः सोऽतिदेशः । सूर्याग्निपदयोर्न हि सौर्ये कश्चिद्धर्मः श्रुतो येनातिदेशे सत्ययं विशेषो लम्य इति निश्चीयते । तदसत् । यतः ५ सूर्यादिशब्दस्यैव प्रभुता अकृतत्वाद्वेदस्यायं पौरुषेयो ग्रन्थः । पुरुषश्चासति भेदे किमिति व्यवहारं नवं प्रवर्तयति । या तु प्रत्यक्षानुमानाम्यां बाधकामावासिद्धिः साऽत्र कदाचिदुपलभ्यते । योऽप्यभ्यासः सोऽपि द्विरावृत्तिस्तत्र ततः प्रवृतिः आवृत्तिशतेष्वभ्यासरूपतयैक एवेति । लोके तावदावृत्तिमात्रमभ्यासः । तत्र योऽपि द्विरपवाद: योऽपि शतकृत्वः तौ द्वावपि प्रायश्चित्ते समौ स्यातां । निन्दितं च कर्म प्रतिषिद्धं । तत्र योऽपि द्विर्दिवा १० सुप्याद्योऽपि गा असकृद्धन्यात्तत्र निन्दितकर्माभ्यासेऽविशेषेण पतनप्राप्तिस्तस्माद्विचिन्त्यमेतत् । किमत्र चिन्त्यते । पंचानां तावत्पातकित्वं सर्वस्मृतिकारैरुच्यते । अन्येषां केषांचित्समत्वं तदुभयमपि बाधितुं तत्र विशेषो नास्तीति संकल्प इष्यते । “ शक्ति चावेक्ष्य पापं च " इति । न हि तस्य तत्सदृशस्येति वा एकत्वं युक्तं । गोर्गवयस्येवं । अथ केषांचिद्धर्माणां भेदः केषांचिदेकत्वे सादृश्यं भवति । तस्मात्तत्समानां पतित्वं १५ भवति । अतः किंचिदूनं तत्समानां पतितप्रायश्चित्तं अधिकारागमे केचिद्विशेषमाहुः । श्रौतेष्वधिकारो निवर्तते साक्षान्न स्मार्तेषु । यदप्युक्तं " द्विरावृत्तौ शतकृत्वश्चाभेदो न स्यादिति " तत्राप्यभ्यासानां भेदः कथं तुल्यप्रत्यवायता । यदपि दिवा स्वप्नगोवधयो. निन्दितत्वाविशेषात्तदम्यासे तुल्यं पतितत्वमिति कथमविशेषो निंदाया यत्रार्थवादेषु प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं बाहुल्येऽपि प्रतिषेधे तत्रायं विधिः । “ निन्दितकर्मा- २. म्यासे पतनमिति " न प्रतिषिद्धमात्रे । तथा च पूर्णेवानसीति सत्यपि निन्दितकर्माभ्यासे नैव पातित्यमस्ति ॥ १८१॥
पतितस्योदकं कार्य सपिण्डैन्धिवैबहिः ॥
निन्दितेऽहनि सायाह्ने ज्ञात्य॒त्विग्गुरुसन्निधौ ॥ १८२॥ जीवत एव पतितस्य प्रायश्चित्तमनिच्छतो घटोदकदानं मृतस्येव कर्तव्यमुच्यते । २५ सपिण्डाः सप्तमपुरुषावधयः एकवंश्यास्ततोऽन्ये बान्धवाः सगोत्राश्च । निन्दितेहऽनि चतुर्दश्यादौ सायाढेऽस्तमिते रवौ ज्ञात्य॒त्विक् ज्ञात्यादयः कर्तृणां तथा पतितस्य ॥१८२।।
दासीघटमपां पूर्ण पर्यस्येत्तवत्पदा ॥ अहोरात्रमुपासीरनशौचं बान्धवैः सह ॥ १८३॥ .
१ज-र-गवयस्य च।
For Private And Personal Use Only