________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मधातिथिभाष्यसमलंकृता।
[ एकादशः
वृषल्यत्र चण्डाल्यभिप्रेता । महत्वाविरभ्यासे चेद्बुद्धिपूर्वे द्रष्टव्यं । अन्यथा कृच्छ्रशब्द एवं वा एकरात्रग्रहणात् । सर्वा रात्रिं शयनस्य तया सह गच्छतश्चतद्विज्ञेयं । सेवन संभोगः । वृषलीशब्दो निन्दया प्रयुक्तो न जातिशब्दो यत्करोति तत्पा जनयति तत्त्रिभिवळपोहति विनाशयति । भैक्षाहारो जपन्निति अविशेषचोदनायां भावी' आसु परं च नास्तीत्याहुः । अन्ये तु यथा श्राद्धमन्यानि मन्त्रब्राह्मणवाच्यानि न तु लौकिकं वाच्यमविशेषेण मन्त्रजपस्य शुद्धयर्थं विहितत्वादृक्संहितामित्यादि । यत्तु त्रिभिर्मासैः सेवित्वा वृषली शूद्रामेवाचक्षते तदप्ययुक्तं । शूद्राविवाहस्य विहितत्वात् । स्वैरिण्याश्च लघुप्रायश्चित्तस्योपदेशादन्यस्याश्चोपपातकत्वाद्गुरुतरमिदमयुक्तम् ॥ १७८ ॥
एंषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितः सम्प्रयुक्तानामिमाः अणुत निष्कृतीः ॥ १७९ ।। ऋज्वर्थः श्लोकः ॥ १७९ ॥ संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान तु यानासनाशनात् ॥ १८० ॥
द्विनातिकर्मभ्यो हानि पतत्यर्थः पतति भ्रश्यति हीयतेऽधिकारात्। पतिताश्चत्वारो १५ ब्राह्मणादयः । तैः सहाचरन् संवत्सरेण पतितो भवति तत्तुल्यो भवतीत्यर्थः ।
किमाचरन् यानासनाशनसलापगात्रस्पर्शादिना सहागमनमासनं तादृशमेव शय्यायामेकस्मिन्नासन आसनमेकपात्रे भोजनं याजनाध्यापनाद्यौनात्कृत्वाप्यविच्छेदः । किं याजनादिभिर्न च पातित्यमथाक्सिंवत्सरादूर्ध्व वेत्येतद्वक्तव्यं । स्मृत्यन्तरदर्शनादिभिः सद्यो याजनाध्यापनमिति द्वितीयान्तः पाठो युक्तः । आचरन्निति शत्रा हेत्वर्थस्य गमितत्वात् ॥१८० ॥
यो येन पतितनैषां संसर्ग याति मानवः ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ १८१ ॥
यस्य पतितस्य यद्विहितं तत्प्रायश्चित्तं कुर्यात्तत्संसर्गस्य शुद्धये । एपामिति निर्धारणे षष्ठी । एषां पतितानां येन पतितेन यः संसर्ग याति पूर्वोक्तसंसर्ग गच्छति
स तस्यैव पतितस्य यद्विहितं प्रायश्चित्तं तत्कुर्यात् । तत्संसर्गाद्यो दोष उत्पन्नस्तद्विशुद्धये २५ तद्विनाशाय । अनुवादोऽयं श्लोकपूरणः । अथ यदिदमुच्यते पतितात्याग्यपतितात्यागा
त्यादिनिन्दितकर्माभ्यासेन पतनं । तत्र यदेतत्पतितत्वचनं तत्किमुपदिश्यत आहोस्विदतिदिश्यते । यदि तावदुपदिश्यते पंच पातकानीति प्रसिद्धमूलं वाच्यं । अथ पंचानुगमौपदेशिकमन्येषामातिदेशिकैर्व्यवहारे भेदेन कश्चिदर्थः । तान्येव प्रायश्चित्तानि त एव धर्मा १ण-र-भावि । २ फ-स्वाविहितत्वात् । ३ ण-र-एताः पापकृता युक्ताश्चतुर्णाममिनिष्कतीः ।
For Private And Personal Use Only