________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
। एकादशः
" अभोज्यानां तु भुक्त्वाऽन्नम्" इति प्राप्त वचनमिदं कृच्छ्राब्दप्रायश्चित्तार्थमेवं प्रतिग्रहेऽपि “ मासं गोष्ठे पय " इति प्राप्त तदर्थमेव ज्ञानात् सम्यगिति कामकारकृतेऽपि प्रायश्चित्त-- विधानार्थेऽर्थवादोयं । यत्स्मृत्यन्तरेऽब्दशब्देन ज्ञाताज्ञातयोः प्रायश्चित्तमुक्तं तच दर्शितम्। अतः कुतोऽधिकप्रायश्चित्तार्थता । भुक्त्वा चेति केन संबध्यते । चाण्डालान्त्येत्यनेन। ननु च गुणीभूतमेतत् । गुणीभूतस्याप्यपेक्षायां संबन्धो दर्शितः । भुक्त्वा कस्येत्याकांक्षायां अन्यस्याश्रुतत्वात्साम्यवचनाच्च चाण्डालान्त्यानामेव संबन्धः । अतोऽयमों भवति । चाण्डालस्त्रीम्लेछानामन्नमशित्वा तेभ्यः प्रतिगृह्य च स्त्रियं गत्वा सकृद्गमनात्प्रायश्चित्तं । अभ्यासे तु साम्यमेव युक्तमनधिकारप्रायश्चित्तेन । यतः प्रतिनिमित्तं नैमित्तिकेन भवितन्यं न च तान्येकेन जन्मना शक्यन्तेऽनुष्ठातुम् ॥ १७५ ॥
विप्रदुष्टां त्रियं भर्ता निरुंध्यादेकवेश्मनि ॥
यत्पुंसः परदारेषु तच्चैनां चारयेद्रतम् ॥ १७६ ॥
विशेषेण प्रदुष्टां निरन्ध्यात्पत्नीकार्येभ्यो निवर्तयेत् " अर्थस्य संग्रहे चैनाम् "' इत्यादिभ्यः । एकवेश्मनीति निगडबन्धे कर्तव्या । न स्वैरं भर्तृगृहे विहर्तु लभेत । तत्र
निरुद्धां प्रायश्चित्तं कारयेत् । किं पुनर्यत्पुंसः परदारेषु प्रायश्चित्तमुपपातकं ब्राह्मणस्य १५ तत्समानहीनजातीयासु पारदार्यमिति वर्णान्तराणां तदेव । उत्तमागमने तु द्विगुणं वैश्यस्य
त्रिगुणं ब्राह्मण्यां क्षत्रियस्य । तथाऽयं विशेषो द्वे परदारे त्रीणि श्रोत्रियस्येति । शूद्रस्य ब्राह्मणीगमने महापातकप्रायश्चित्तं । वैश्यस्य क्षत्रियागमन उपपातकं द्विगुणं त्रिगुणं । केचित्तूत्तमागमने शूद्रस्य ब्राह्मणीवदिच्छन्ति । " प्रातिलोम्ये वधः पुंसाम्" इति
लिङ्गदर्शनात् । एतदुक्तं दण्डेष्वपि विशेषो दर्शितः । यथैवोत्तमागमने पुंसां व्यवस्था २० तथैव स्त्रीणां हीनजातीयपुरुषसंपर्के युवतिदोषेऽपि स्त्रीणाम प्रायश्चित्तम् ।
"प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च। बालश्चा षोडशाद्वर्षादशीतिपरतःपुमान् ॥" तथा दृष्टव्यभिचारायां गमने लघीयः स्वैरिण्यां वृषवल्यामवकीर्णः सचैलस्नानादुकुंभ दद्याद्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणं भोजयेत् । क्षत्रियायां
त्रिरात्रोपोषणं यवाटकं दद्यात् । वैश्यवदित्यपि स्मयते । तद्वच्छूद्रमार्यायां द्रष्टव्यं । २५ ऋतौ वा गच्छतो गर्भमादधतो वा । “'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः । अप्रनाता विशुध्येयुः प्रायश्चित्तेन नेतरा।"
अथवा या एता न केनचिदूह्यन्ते वैश्येन चरन्ति तद्गमनेऽस्ति प्रायश्चित्तं नेति संदेहः । कुतः संशयः । दारशब्दस्य संस्कारशब्दत्वात् असति विवाहे न ता अस्व १ वासिष्ठे अ. २॥१२॥
For Private And Personal Use Only