SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता । [एकादशः १० मणिमुक्तावालानां ताम्रस्य रजतस्य च ॥ अयकास्योपलानां च द्वादशाह कणानता ॥ १६७ स्वल्पबहुत्वापेक्षया च कालह्रासः सकृदावृत्तौ च ॥ १६७ ।। कार्पासकीटजोर्णानां द्विशफैकशफस्य च ॥ पक्षिगन्धौषधीनां च रज्ज्वाश्चैव व्यहं पयः ॥ १६८ ॥ कीटजाः पट्टाः । द्विशफा गवादयः । एकखुरा अश्वादयः । पक्षिणः शुकश्येनादयः । रज्जुकूपादेरुदकोदंचनी ॥ १६८ ॥ एतैव्रतैरपोहेत पापं स्तेयकृतं द्विजः॥ अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ १६९ ॥ उक्तार्थः श्लोकः ।। १६९॥ गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।। सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ १७० ॥ गुरुतल्पव्रतमित्यविशेषवचनेऽपि न तेन स्वयोन्यादिष्वित्येवमाद्यतिदिश्यते । अपि तु “प्राजापत्यं चरेदब्दम्" इति महापातकत्वात् न हि महापातकेभ्योऽन्यत्र १५ मरणांतं प्रायश्चित्तमस्ति । अभ्यासे तु स्यादिति । स्वयोनयो भगिन्यः सोदराः । सख्युः स्त्रीषु सुत्दृद्भार्यासु सुत्दृत्त्वमेवात्र कारणं न यौनादिविशेषः । नापि श्रोत्रियत्वादिगुणः । एवं पुत्रस्य स्त्रीषु स्नुषास्वसमान नातीयास्वपि कुमारीषु पुत्रादिभिरदत्तासु स्वयं संप्रीत्यानुपनतास्वेतदेव बलाद्गमने । अत्रापि न सत्यपेक्षा । यद्यप्यतिदेशे विशेषो नास्ति तथापि प्रायश्चित्तद्वयं स्यादिति दृष्टत्वात् । तथा च गुरुलघुमावाद्धीनजातीयासु २० कृच्छ्राब्दाच्चांद्रायणं मासत्रयं लघीय आदेश्यं । अन्त्यजाश्चाण्डालम्लेछादिस्त्रियः । चण्डालादिस्त्रीषु च स्मृत्यन्तरे ज्ञानाज्ञानकृतो विशेष उक्तो “ अन्त्यावसायागमने कृच्छार्धममत्यासु द्वादशरात्रम् ” ॥ १७० ॥ पैतृष्वसेयीं भगिनी स्वस्रीयां मातुरेव च ॥ मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ १७१ ॥ पितृष्वसुर्दुहिता पैतृष्वज्ञेयी भगिनी । मातृष्वस्रीया मातृष्वसुर्दुहिता । मातुश्च भ्रातुर्मातुलदुहिता । आप्तस्य सोदर्यस्येत्यर्थः ॥ १७१ ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ॥ ज्ञातित्वेनानुपेयास्ताः पतति छुपयन्नधः ॥१७२ ॥ १ गौतमीये अ. २३६३२-३३ । २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy