________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। शूद्रस्य द्वाविंशतिरात्रं वा किंचित्परिमाणे धान्येऽपत्हते दशभ्यः कुंमेभ्यः किंचिदूने महत्त्वात्प्रायश्चित्तस्य धनमाप्यैवं कालं न कल्पनेति विज्ञेयम् । कामादिति श्लोकपूरणम् । न ह्यकामस्य परधनहरणसंभवः । धान्यं ब्रीह्यादि तदेवापत्दृतं अन्नं सिद्धमांसं च । धान्यादीनां प्रत्येकं हरणे व्यर्थी कृछ्रम् । केचिच्च समुदायहरणे प्रायश्चित्तमिच्छन्ति । गरीयो ह्येतत् ॥ १६२॥
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥
कूपवापीजलानां च शुद्धिश्चांद्रायणं स्मृतम् ॥ १६३ ।। मनुष्याणां दासानां। स्त्रीणां दासीनां । क्षेत्रं भूभागो ब्राह्मणादिधान्योत्पत्तिस्थानं । कूपवाप्योर्जलशब्दः प्रत्येकमभिसंबध्यते । उद्धृतोदकस्येरैणादिस्थस्यापहरणे तद्भवति । जलग्रहणाच्छुष्कयोः कूपवाप्योर्विध्यन्तरं । वापी खातः । तडागेऽप्येवमेव ॥ १६३ ॥ १०
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः॥
चरेत्सान्तपनं कृच्छ्रे तनिर्यात्यात्मशुद्धये ।। १६४ ॥ अल्पसाराणि न चिरमवतिष्ठन्ते । स्वल्पमूल्यानि च मृन्मयानि स्थालीपिठरादीनि दारुमयानि द्रोणाढकादीनि अयोमयानि लेपनीकुद्दालकादीनि । वेश्मनीति गृहस्थिता'पहारे भूयान् दोषः । न तथा खलक्षेत्रादिगते । निर्यात्य दत्वा । सर्वशेषश्वायं विशेषा- १५ भावात् । यत्र त्वपत्दृतं दातुमशक्यं तत्र द्विगुणं प्रायश्चित्तम् ॥ १६ ॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ १६५ ॥ यानं गन्व्यादि । शय्या खट्टादि । आसनं बृस्यासंदीपट्टादि । भक्ष्यभोज्ययोः खरविशदतद्वैपरीत्येन भेदो विज्ञेयः । भक्ष्यं मोदकशष्कुल्यादि । भोज्यं यावकादि । २० पंचगव्यं प्रसिद्धं । अत्राप्येकाहमेव ॥ १६५ ॥ . तृणकाष्ठद्रुमाणां च शुष्कानस्य गुडस्य च ॥
चेल चमिषाणां च त्रिरात्रं स्यादभोजनम् ॥ १६६ ॥ तृणादीनां पूर्वस्मात् यानादेरधिकहरणे प्रायश्चित्तमेतत् । काष्ठमघटितं वंशःस्तंभादिद्रुमसाहचर्यात् द्रुमो वृक्षः । शुष्कानं तण्डुलादि भ्रष्टयवा वा । गुडग्रहणं स्वविकारार्थ २५ तेन खण्डमत्स्यण्डिकादेग्रहणं । चैलं वस्त्रं बहूनां " उत्तमानां च वाससां" प्रागुक्तेन धनग्रहणेन कृच्छ्रादेश्चर्म कवचं । मांसमामिषम् ॥ १६६ ॥
१-र-तरणादिस्थस्यस्यापहरणेस्त। २ण-र-क्रम ।
For Private And Personal Use Only