SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाज्यसमलंकृता । [ एकादशः व्रतवारी प्रयुक्तो ब्रह्मचर्याश्रमस्थ एव । कथंचन आपपीत्यर्थः “प्राणानामेव चास्यय " इत्यापदिविधानात् । असति दोषे न तन्निर्घातार्थमेतत्प्रायश्चित्तं । किं तर्हि निमित्तमात्रपर्यवसायिवचनात्क्रियते । प्राकृतं प्राजापत्यं प्रकृतौ भवं प्राकृतं । सर्वकृछ्राणां प्रकृतित्वादेवमुच्यते व्रतशेष समापयेत् ॥ १५८ ॥ बिडालकाकाच्छिष्टं जग्ध्वा श्वनकुलस्य च ॥ केशकीटावपन्नं च पिबेब्रह्मसुवर्चलाम् ॥ १५९ ॥ अकृतप्रायश्चित्तस्यावशिष्टव्रतसमाप्तावनधिकारमाह । आखुर्मूषकः । अवपन्नमेतसंपर्कदूषितं । ब्रह्मसुवर्चलां पिष्टोदकेन सह पिबेदेकाहमविशेषात्तेनैव शास्त्रार्थस्य कृतत्वात् ॥ १५९॥ अभोज्यमन्त्रं नात्तव्यमात्मनः शुद्धिमिच्छता ॥ अज्ञानभुक्तं तूत्तार्य शोध्यं वाप्याशु शोधनैः ॥१६० ॥ आयोऽर्थः श्लोकोऽनुवादः । अज्ञातभुक्तशुद्धयर्थमित्येतद्विधीयते । समनन्तरं वमितव्यमित्यर्थः । क्षिप्रं वा शोधनैः प्रायश्चित्तैः शोध्यं । अन्ये तु शोधनानि हरीतक्या दीनि रेचनान्याहुः । गौतमीये चेदमुदाहरन्ति “ अभोज्यभोजने पुरीषाभाव " २५ इति तदेतदसाधकं । उपवासेनापि निष्पुरीषत्वोपपत्तेः । तस्माद्वान्तौ यथाश्रुतप्रायश्चित्तमेव वेदितव्यम् ॥ १६॥ एषो नाधादनस्योक्तो व्रतानां विविधो विधिः ॥ स्तेयदोषापहर्तृणां व्रतानां श्रूयतां विधिः ॥ १६१ ॥ व्रतानामनाचादनस्यामक्ष्यभक्षणस्य स्तेयं तदोषशमस्तमपहरन्ति यानि व्रतानि २० तेषामिदानी विधिरुच्यते ॥ १६१ ॥ धान्यानधनचौर्याणि कृत्वा कामाद्विजोत्तमः॥ स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ १६२ ॥ द्विजोत्तमग्रहणं प्रदर्शनार्थ क्षत्रियादीनामपि । द्विजोत्तमशब्दसन्निपाताच स्वजातीयगृहादिति ब्राह्मणगृहाद्विज्ञायते । तेनैतदुक्तं भवति । सर्व एव वर्णा ब्राह्मणगृहात् २५ धनं हृत्वा कृछ्राब्देन शुध्येयुः । धनग्रहणात्सर्वस्मिन् धनं सिद्धं धान्यान्नग्रहणं सद्धान्याथै । अल्पसाराणामन्यं विधिं वक्ष्यति । अतः सारभूतप्रधानद्रव्यापहरण इदं विज्ञायते तेषां न हि परस्परद्रव्यापहरणे ब्राह्मणस्य तदीयधनापहारे कतरत्प्रायश्चित्तमुच्यते । हिंसाप्रायश्चित्तवत्तुर्याष्टमादिभागकल्पना कर्तव्या । क्षत्रियस्य धने त्रीन् वैश्यस्य सार्ध १फ-तं । २ अ, २३।२। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy