________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
1
वैद्यकप्रसिद्धा अनेकौषधिसंयोगेन ये काथ्यन्ते । अप्रयतोऽशुचिर्यावद्रजत्यधः अधोगमनं जीर्णानां मूत्रपुरीषभागेन निष्क्रामणाद्यदि वा पक्षाशयप्राप्तिः ॥ १५३ ॥ विराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्राश्य मूत्रपुरीषाणि द्विजश्वान्द्रायणं चरेत् ॥ १५४ ॥ विशेषानुपदेशादमत्या वा तुल्यमेव च युक्तं लाघवकल्पनात् ॥ १५४ ॥ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ॥ अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ।। १५५ ।।
वल्लूरादीनि । भौमानीति कोटरजातानामनिषेधार्थम् | अज्ञातं मेषस्य महिषस्येति प्रकृतेरज्ञानात् । सूना घातस्थानम् । यत्र विक्रयार्थं पशवो हन्यन्तेऽतोऽन्यत्र स्थितस्य लघुप्रायश्चित्तम् । ननु ' सूनास्थ' इति वचनादन्यत्र स्थितस्य प्रायश्चित्ताभाव १० एव युक्तः । नैतदेवं । सौनमित्यविशेषेण प्रतिषेधात् । प्रायश्चित्ते तु स्थग्रहणात्तदुत्थितस्य गुरुलघुभावो युक्ततरस्तदेव चांद्रायणं । ज्ञाते तु जातिविशेषेऽभ्यासे सप्तरात्रं यावकपानम् । ' शेषेषूपवसेदह : ' इति ॥ १५५ ॥
1
११०-१११
८७३
क्रव्यादसूकरोष्ट्राणां कुकुटानां च भक्षणे ॥
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ।। १५६ ॥
1
चेति पूर्वश्लोकोऽत्राकृष्यते । तेन विराहादीनां भक्षण एतदेव । द्वितीयेन शब्देन क्रव्यादानां विमूत्रप्राशने यदेव विदुराहादीनां स्मृत्यन्तरे च नरमात्राधिकारेणेह द्विजग्रहणमविवक्षितं " द्विजश्चांद्रायणमिति” । एवमियं द्विश्लोकी बिडालक कादन्यत्रापेक्षते । अतश्चैतेषामप्युच्छिष्टप्राशने . बिडालादिवत्ततोऽस्यां त्रिलोक्यां समुद्दिष्टम् । मूत्रपुरीषं च सर्वेषां प्रतिषिद्धम् । अतश्च यत्क्रव्यादानां मूत्रपुरीषप्राशने तद्विडालादीनामपि ॥ १९६ ॥ २० मासिकानं तु योऽश्रीयादसमावर्तको द्विजः ॥
स त्रीण्यान्युपवसेदेकाई चोदके वसेत् ॥ १५७ ॥
ब्रह्मचारी तु योनीयान्मधु मांसं कथंचन ||
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ १५८ ॥
For Private And Personal Use Only
५
मासिक मे कोद्दिष्टश्राद्धं “ कृते सपिण्डीकरणे प्रतिमासं तु वत्सरम् " इति आमावास्यस्य तु मासिकव्यपदेशेऽप्यनुज्ञातत्वात् । “ काममभ्यर्थितोऽश्नीयात्” इति कुतः प्रायश्चित्तं । अन्ये त्वभ्यर्थितस्यानुज्ञानादनभ्यर्थ्यमानस्योक्तमेवेत्याहुः । असमावर्तको २५ गुरुकुले तिष्ठन्नर्थद्वह्मचार्युच्यते । त्र्यहादन्यतरस्मिन्नहन्युदके वसेत् । त्र्यहस्यैव बुद्धौ स्थितत्वात्तर्हि चतुर्थमहस्तद्दिवसः ॥ १५७ ॥
१५