________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७२
मेधातिथिमाष्यसमलंकृता ।
[एकादशः
आघ्राणेऽप्येतदेव सोमप इति वचनादर्शपूर्णमासयाजिनः कल्पेन । घृतं पाश्यति अत्रापि न भोजनान्तरनिवृत्तिः सुराग्रहणान्न मद्यस्य ॥ १४९ ॥
अज्ञानात्माश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ १५० ॥ __विण्मूत्रग्रहणं रेतस उपलक्षणार्थ । स्मृत्यन्तरे " पुरीषकुणपरेतसां प्राशने चैवमिति " । किंजातीयविण्मूत्रप्राशन एतन्मनुष्याणामेव । अन्येषां तु वक्ष्यामः । अत्रापि तप्तकृच्छू समुच्चीयते । दर्शितश्च हेतुः । द्विजातय इति विवक्षितं । शूद्रस्यान्यद्वक्ष्यामः । अज्ञानादित्यनुवादः । को हि ज्ञात्वा विमूत्रमश्नीयात् । यथा मद्यपान एतदेवोक्तं " मद्य भुक्तत्वा चरेत्कृमिति " यदि तु संस्कारो भवति तदा वचनात्तुल्यमेव ॥ १५० ॥
वपनं मेखलादण्डो भैक्ष्यचर्याव्रतानि च । निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ १५१ ॥
व्रतानि वेदव्रतानि तदयुक्तं ग्रहणार्थत्वात्तेषां कुतः प्राप्तिः। तस्माद्यान्युपनयन. काले " मा दिवा स्वाप्सीः सायंप्रातः समिधमादध्या आचार्याधीनो भव " इत्येवमादीनि च व्रतानि निबर्तन्ते ॥ १५१ ॥
अभोज्यानां तु भुक्त्वाऽनं स्त्रीशूद्रोच्छिष्टमेव च । जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान्पिबेत् ॥ १५२ ॥
येषामन्नं न भुज्यते तेऽभोज्याः पुरुषा अश्रोत्रियस्त्रीसंग्रामजीव्ययाज्ययाजकादयः । शगजातिग्रहणादेव जातिनिर्देशात्स्त्रीग्रहणं लब्धसवर्णाथै विज्ञेयं । उच्छिष्टं तदास्पृष्टं
यच्च " नित्यमास्यं शुचिः स्त्रीणामिति " तस्य विषयो दर्शितः। शूद्रोच्छिष्टानामपां पाने २० पूर्वत्र कुशवायुक्तं । इह तु सप्तरात्रं यवानिति । अगामिकत्वादस्यार्थस्योभयत्र भक्ता
धुच्छिष्टभोजनेदं द्रष्टव्यं । अभक्ष्यं मांसं प्लवहंसचक्रवाकादीनां। इदं तु बुद्धिपूर्वकमभ्यासभक्षणे द्रष्टव्यं । अन्यत्र " शेषेषूपवसेदहरिति "। एतदेव पयः पीत्वा सूकरोष्ट्रादिभ्यो अन्यत्र तत्र प्रतिपदं प्रायश्चित्तान्तराम्रानात् । सक्तुपानं यवकपानं भवत्येव ॥ ११२ ॥
शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः ॥ तावद्भवत्यप्रयतो यावत्तन्न बजत्यधः ॥ १५३ ॥
अमेध्यानि शुक्तानि “दधि भक्ष्यं च शुक्तेषुवि" इत्येतत् त्रयाभ्यनुज्ञानानस्तु सत्यपि शुक्तत्वे भक्ष्यताया विहितत्वान्नैष विधिः पवित्रं हि तदिति स्मरन्ति । कषाया
१ 'मूत्रपुरीषरेतसा ' इति गौतमीये अ. २३-३ । २ ख-मेध्यानि ।
For Private And Personal Use Only