________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
८७१
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ॥
मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ १४६ ॥ मेखलादीनां निषेधापनयनं विज्ञायते । ततश्च स्मृत्यन्तरात्तप्तकृछ्रसहितं । एवं हि गौतमः “ अमत्या मद्यपाने पयोघृतमुदकं वायुश्चेति व्यहं तप्तातितप्तकवतोऽस्य संस्कारः" । सुरा चात्र न पैष्टी किंतर्हि गौडी माध्वी । कुत एतस्मृत्यन्तरदर्शनात् । ५ " प्रमादान्मद्यमसुरां सकृत्पीत्वा द्विजोत्तमः । गोमूत्रयावकाहारो दशरात्रेण शुध्यति " ॥ पैष्टयाश्च प्रमादपाने प्रत्यवायः प्रायश्चित्तात् । व्रतं विधितो विज्ञाय संवत्सरं कणभक्षश्चान्द्रायणाभ्यासो वा । मतिपूर्व तयोरपि पान:एतदनिद्देश्यं किंतर्हि येन प्राणानामन्तो भवति । किंतत् यत्र मुख्या या. सुरोक्ता । अभ्यासे चैतद्रष्टव्यं । " सकृत्पाने सुरापाने चान्द्रायणमाचरेदिति " श्रेयमत्रव्यवस्था । बुद्धिपूर्व पैष्टयाः पाने १० प्राणान्तमेव तस्या एवाबुद्धिपूर्व सकृत्पाने कणभक्षणचांद्रायणाभ्यासोऽत्रुद्धिपूर्वे बुद्धिपूर्वे च । अन्येषां तु मद्यपानां बुद्धिपूर्वत्वे चांद्रायणमभ्यसेदिति । अबुद्धिपूर्वसकृत्पाने तप्तकृच्छूसंस्कारगोमूत्रयावकद्रव्याणि । अबुद्धिपूर्वमसकृत्पाने पैष्टीवत् ॥ १४६ ॥
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ॥
पञ्चरात्रं पिबेप्तीत्वा शङ्खपुष्पीश्रितं पयः ॥ १४७॥ यत्र सुरारसोऽनुभूयते तत्र तद्भाननस्थानामपां पाने प्रायश्चित्तमेतत् । ननु च मद्यशब्दस्य सामान्यशब्दत्वान्मद्यभाण्डस्थिता इत्येव सिद्धे अपः सुरेत्यादि न वक्तव्यं । सत्यं । यद्यपि सुरामद्ययोर्मद्यपानेऽत्यन्तप्रायश्चित्तभेदो न स्यात् । सति तस्मिन् कल्पनायाश्वानुज्ञातत्वात् । सुराभाजनस्थानामधिकतरस्ततोऽतः कल्पनावृत्यर्थं समप्रायश्चित्तवचनं । पंचरात्रं शंखपुष्पीघृतं पयोघृतग्रहणात्पयः क्षीरमेव क्षीरहविषोरेव घृतशब्दः साधुः । २० शंखपुष्पीनामौषधिस्तया प्र॒ष्टं क्वथितं पंचाहानि पयः पातव्यम् ॥ १४७ ॥
स्पृष्वा दत्वा च मदिरा विधिवत्प्रतिगृह्य च ।
शूद्रोच्छिष्टाश्च पीत्वाऽऽपः कुशवारि पिबेत्र्यहम् ॥ १४८ ॥ विधिवत्प्रतिगृह्य स्वस्तिवाचनिकेन एवं दत्वेत्यपि ब्रीह्यादौ न दोषः। कुशो दर्भः॥१४॥
ब्राह्मणस्तु सुरापस्य गन्धमाधाय सोमपः। प्राणानप्सु त्रिरायम्य घतं पाश्य विशुध्यति ॥ १४९॥
सुरापस्य गन्धमिति सुराया एव जाठरेणाग्निना धातुभिश्च संयोगेन गन्धघ्राणे लघीयः । भाण्डान्तरस्थितायाः प्राप्तिरघ्रायैव । अन्ये तु व्याचक्षते सुरापस्य ब्राह्मणस्य
-
-
१ अ. २२ स. २। २फर्वे ।
For Private And Personal Use Only