SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८७० मेधातिथिभाष्यसमलंकृता । किंचिदेव तु विप्राय दद्यादस्थिमतां वधे ॥ अनास्थां चैव हिंसायां प्राणायामेन शुध्यति ॥ १४१ ॥ किंचिदिति स्वल्पधनमुच्यते । परिमाणतः प्रयोजनो मूल्यतश्च पूर्वेषामेव प्रत्येकवध एतत् । अनुक्तनिष्कृतयश्चास्थिमन्तो ज्ञेयाः । आत्मनिरोधः प्राणायामः । मलिनीयेषु ५ यत्कृमिकीटवयोग्रहणं तदुपचितग्रहपरिमाणार्थं । इदं तु ये क्षुद्रा मशकादयः ॥ १४१ ॥ फळदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ 1 १४२ ॥ फलदा आम्रकण्टक्यादयः । ऋक्शतं जपो द्विजानां शूद्रस्य । तर्हि किं केचिदाहुः “ इन्धनार्थमशुष्काणाम् " इति उपपातकप्रायश्चित्तं तच्च नातिमहत्त्वाद्यदि न १० तद्भवति किमर्थं तपपातकेपूपदेशो भूयोभूयः प्रवृत्तः स्यादिति । तस्माच्छूद्रस्य द्विरात्रत्रिरात्रादीत्येव कल्पयेत् । गुल्मादयो व्याख्याताः । लता वृक्षशाखाः ॥ १४२ ॥ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ॥ www. kobatirth.org २० २५ Acharya Shri Kailassagarsuri Gyanmandir फळ पुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ १४३ ॥ अन्नाद्भक्तसक्त्वादेश्चिरस्थिताद्यानि जायन्ते सत्वानि प्राणिनः । रसजानामिति १५ गुडोद चिंदादिभ्य उदुंबरमशकादीनि फलपुष्पोद्भवानि । घृतप्राशः अशनप्रारंभे घृतं पातव्यं । प्रशब्द आदिकर्मणि । तेन न प्राकृतं भोजनं निवर्तते । यथा पयोव्रतादौ तथा चैते प्राणिनः क्षुद्रजन्तवो येषां वधे प्राणायाम उक्तस्तदपेक्षयोपवासोऽतिमहान् । तस्मादाचमनवत् घृतप्राशनम् ॥ १४३ ॥ [ एकादशः कृष्टजानामोषधीनां जातानां च स्वयं वने ॥ वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः ॥ १४४ ॥ फालकुद्दालादिना याः कुष्टे जायन्ते याश्च स्वयं वने तासां वृथारंभे गवादिप्रयोजनेन विना छेदनं गवानुगमनं । दिनमेकं परमहर्षाय परिचर्यते । पयोव्रतं भोजनान्तरनिवृत्तिः ॥ १४४ ॥ For Private And Personal Use Only एतैतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ॥ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ १४५ ॥ हिंसासमुद्भवं हिंसात उत्पन्नमेनः पापमेतैरनन्तरोक्तैः प्रायश्चित्तैरपोह्यमपनोद्यं । बुद्धिपूर्वकृतमबुद्धिपूर्वकृतं वा । अनाथभक्षणेऽमक्ष्यभक्षणे यथा पापमपोह्यते तथा शृणुत ॥ १४५ ॥ १ फ-मी । २ र-ण-तौ । ३ फ-श्चि । ४ ण-र-रंभोर्गवादि
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy