SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। हवा हंस बलाका च बकं बहिणमेव च ॥ वानरं श्येनभासौ च स्पर्शयेद्राह्मणाय गाम् ॥ १३५ ॥ हंसादयः पक्षिणो वानरो मर्कटः । स्पर्शयेद्दद्यात् प्रत्येकवधे चैतत्प्रायश्चित्तं द्वन्द्वानिर्देशादित्युक्तम् ॥ १३५ ॥ वासो दद्याद्धयं हत्वा पंच नीलान्तृषान्गजम् ॥ ___अजमेषावनडाहं खरं हत्वैकहायनम् ॥ १३६ ॥ हयोश्वो गजो हस्तिः । अनड़ान पुंगवोऽजमेषवधे खरवधे । अनडुत्साहचर्यादेकहायनो गोवत्सः ॥ १३६ ॥ क्रव्यादास्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् ॥ अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ १३७ ॥ १० क्रव्यादास्तरासिंहमृगादयः । अक्रव्यादाः रुरुपृषतादयः । धेनुौरेव । कुष्णलं विशिष्टपरिमाणं सुवर्ण दण्डाधिकारशास्त्रपरिभाषा । अन्यत्र लौकिकमेव " शतकृष्णलं घृतमायुष्काम " इति ॥ १३७ ॥ * जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ॥ चतुर्णामपि वर्णानां नारीईत्वाऽनवस्थिताः ॥ १३८॥ १५. अनवस्थिता बहुभिः संगच्छमाना वेश्यावृत्तमाचरन्त्योऽनवस्थिता भवन्ति । न पुनः शास्त्रातिक्रममात्रं । तथा सति न परपुरुषसंप्रयोग एव लभ्यते । वर्णक्रमेण जीनादिदानात् जीनं चर्मपुटं मुटकाधारादिप्रयोजनं । कार्मुकं धनुः । बस्तः छागोऽविर्मेषः । पृथग्रहणं लिङ्गादुक्तं समुदाये प्रायश्चित्तमिति । केचिद्गत्वेति पठन्ति तदयुक्तं । हिंसाप्रकरणात् ॥ १३८ ॥ ____दानेन वधनिणेकं सादीनामशक्नुवन् । एकैकशश्वरेत्कृच्छं द्विजः पापापनुत्तये ॥ १३९ ॥ निर्णेकः शुद्धिः हिंसायां दानमुख्यमिति दर्शयति । न च तस्यैकैकश इति लिङ्गात् केचित्समुदायेऽपीति । द्विज इत्यादिपादपूरणं । अविशेषग्रहणे कृछूशब्दं प्राजापत्य इति स्मरन्ति ॥ १३९॥ अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे ॥ पूर्णे चानास्यनस्थां तु शद्रहत्याव्रतं चरेत् ॥ १४०॥ स्वल्पशरीरत्वमिहास्थिमत्त्वमनस्थिसाहचर्यात् । अनः शकटस्तत्संख्यानमेतत् । उक्तार्थे सत्येव ॥ १४० ॥ * वर्णानामानुपूर्येण त्रयाणामविशेषतः । अमत्या च प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत्॥१॥ -र-द्वन्द्वनिर्देशात् । २ण-र-तिक्ष । ३ ण-र-जाल फ-जिन । ४ ण-अथन्वता; र-अस्थान्वतो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy