________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६८
मेधातिथिभाष्यसमलंकृता। [ एकादशः ततश्च सर्वमसमंजस्यं स्यात् । पौरुषेयं चेदं वाक्यं नैव वैदिकं । वेदे च कस्य पुरुषस्य प्रयोगः किमर्थमनर्थकं प्रयुक्तमिति । इह तु बुद्धिपूर्वे प्रयोगे मात्रायामप्ययुक्तमानर्थक्ये तत्साहित्यविवक्षाविशेषेण विवक्षा युक्तैव । यच्चोक्तं कथं चेदिति सर्वमेवेति च तत्राप्या
खेटकमृगयादावदाहिनो वा उपपाद्यतयैव यदप्युक्तमतिरिक्तसद्भावेन तन्निमित्तमिति तद५ प्ययुक्तं । न त्वाधिक्ये पूर्वी नाशो न्यूनेषु च तथैव कल्पना कार्या ॥ १३१ ॥
पयः पिवेत्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् ॥ उपस्पृशेत्स्रवन्त्यां वा मुक्तं वाऽन्दैवतं जपेत् ॥ १३२ ॥
प्रत्येकं वधे प्रायश्चित्तान्तरमुच्यते । पयः क्षीरं प्रसिद्धतरत्वात्प्रयोगस्य नापः । सत्यामप्युभयार्थतायां यथा ' पयसा जुहोति' इति । यथैव वराहशब्दो मेघे पर्वते सूकरे वर्तते प्रसिद्धतरसूकरेन पर्वतादिप्रवृत्तौ समानाधिकरण्यमपेक्ष्यते वराहो हिमवान् वराहः पारियात्र इति । प्राकृते च भोजने भक्तादौ शरीरस्थित्यर्थं प्राप्ते तत्स्थाने पयो विधीयमानमन्यदन्नं निवर्तयति । तपोरूपत्वाच्चैतदेव प्रतिपत्तुं युक्तं । तापयति दुःखयतीति तपोऽतो यथा प्राणायामघृतप्राशनमिति नात्र पौरस्य भोजनं निवर्त्यते । एवमिह नाचमनं
निवर्तयति यो घृतप्राशनं भोजनान्तरनिमित्तं बाधत इति नापः पयःपानेन विकल्पिताः । १५ किं तर्हि उपस्पृशेत् स्रवन्त्यामिति पयःपानात्तद्गमने अध्वगमनशब्द उक्तः । स्रवन्त्यां
स्रवन्तिवचनात्तडागसरसोर्निवृत्तिः । अब्दैवतं " आपो हि ष्ठा" इत्यादि ऋक्समुदायोक्तं पवमानसूक्तं स्मृत्यन्तरेषु “ कृशरभोजनमेकार्थं लोहदण्डं च दक्षिणेति " व्रजेन देशांन्तरप्राप्तिरित्येव किं तर्हि पादाम्यां गमनम् ॥ १३२॥
अभ्रिं कार्णायसी दद्यात्सर्प हत्वा द्विजोत्तमः ॥ पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ १३३ ॥
द्विजोत्तमग्रहणमतंत्रम् । तीक्ष्णामायसीमभ्रीं कार्णायसीग्रहणं काष्ठादिनिवृत्यर्थे । पण्डे नपुंसके । तच्चतुर्विधं । अरेतो वा सरेतो वाऽप्रवृत्तेन्द्रियमुभयव्यञ्जनं वा । सप्राणिमात्रसंबन्धेनैतत्प्रायश्चित्तं ब्राह्मणस्य शूद्रस्य मेषस्य छागस्य च ॥ १३३ ॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ॥ शुके द्विहायनं वत्सं क्रौंचं हत्वा निहायनम् ॥ १३४ ॥
वराहः सूकरस्तस्मिन्हते घृतघटं दद्यात् । चतुराढकं द्रोणः हायनो वर्षे । वत्सो गोजातीयो बालः ॥ १३४ ॥
१जर मेध्यस्य स्वागमस्य वा।
For Private And Personal Use Only