________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[द्वितीयः
प्रवृत्तिः साऽपि वेदप्रामाण्यात्सिद्धैवेति । सर्वप्रकारं प्रवृत्त्याभिमुख्यमनेन जन्यते ।
अन्ये त्वेतं श्लोकं सामान्येन धर्मलक्षणार्थ व्याचक्षते । एवंविधैर्यः सेव्यते स धर्मोऽवगन्तव्यः । प्रत्यक्षवेदविहितस्य स्मार्तस्य वाऽऽचारतः प्राप्तस्य सर्वस्यैतल्लक्षणं विद्यते । अत्र तु य एतैः सेव्यते तं धर्म निबोधतेति पाठो युक्तः ॥ १ ॥
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ॥ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥२॥
फलाभिलाषः कर्मप्रवृत्तेर्हेतुर्यस्य स कामात्मा तद्भावः कामात्मता । तत्प्रधानता आत्मशब्देन प्रतिपाद्यते । सा न प्रशस्ता निन्दिता अतश्च निन्दया प्रतिषेधानुमाने न क
तन्येति प्रतीयते । अर्थात्सौर्यादीनां सर्वेषां काम्यानां निषेधोऽयम् । अथवा किं विशेषेण ब्रूमः १० सौर्यादीनामिति । सर्वमेव क्रियानुष्ठानं फलसिद्धार्थ न स्वरूपनिष्पत्तये । न च काचन निष्फला
क्रिया । यदपि 'न कुर्वीत वृथाचेष्टामिति' । भस्मनि हुतं विषयान्तरे देशराजवार्ताद्यन्वेषणं तत्रापि क्रियाफलं विद्यते । किंतु प्रधानफलं स्वर्गग्रामादि पुरुषस्य यदृष्टादृष्टयोरुपयुज्यते तदभावादृथाचेष्टेत्युच्यते।
अथोच्यते । भवतु क्रिया फलवती तद्विषयेऽभिलाषो न कर्तव्यो वस्तुस्वाभाव्यात्फलं १५ भविष्यति । अत्रापि सौर्यादीनामफलत्वं काम्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यतीति ।
न च लौकिकी प्रवृत्तिदृश्यते फलाभिसन्धिनिरपेक्षा । न चात्र विशेषः श्रुतौ वैदिकेषु कर्मसु फलं नाभिसंधेयमिति । तत्र फलवत्सु श्रुतेषु कामनानिषेधादप्रवृत्तौ श्रुतिविरोधः । नित्येषु तु प्राप्तिरेव नास्ति । विशेषानुपादानाच्च लौकिकव्यापारनिवृत्तौ दृष्टविरोधः।।
तदिदमापतितम् , न किंचित्केनचित्कर्तव्यं सर्वैस्तूष्णीभूतैः स्थातव्यम् । उच्यते । २० यत्तावदुक्तं काम्येषु सौर्यादिषु निषेधप्रसङ्ग इति तत्र वक्ष्यति 'यथासकल्पितांश्चेह सर्वान्
कामान् समश्नुत' इति । निषेधे हि कुतः संकल्पः कुतश्च कामावाप्तिः । यदपि विशेषानुपादानाल्लौकिकेऽपि प्रसक्त इति । तत्रोपात्त एव विशेषः। यो धर्मस्तं निबोधतेति'धर्मस्य प्रकृतत्वात् । यदप्युक्तं नित्येषु फलावणात्फलाभिसन्धेः प्राप्तिरेव नास्ति । किं निषेधेनेति तत्राप्युच्यते । फलाभावात्कश्चित्सम्यक्शास्त्रार्थमजानानो न प्रवर्तेत । सौर्यादिषु च श्रुतफलेषु ५ फलाभिसन्धिपूर्विकां प्रवृत्तिं दृष्ट्वा सामान्यतो दृष्टेन यत्कर्तव्यं तत्फलहेतोः क्रियत इत्य
श्रुतमपि फलममिसंदधीत । तन्निवृत्त्यर्थमिदमारभ्यते । यद्यप्ययं न्यायो यत्फलवच्छूतं तत्तथैव कर्तव्यम् । यदापि निष्फलमेव कर्तव्यतया शास्त्रेण यावज्जीवादिपदैर्विनैव विश्वजिन्यायेन फलकल्पनयाऽवगमितं तथाऽन्यथानुष्ठाने प्रसङ्ग एव नास्ति तथापि य एतं न्याय
१.ख-फ-वाऽऽच रतः । २ फ-यद्दष्टा- 3 अग्रे ५ श्लो. । ४ क-यद्यपि; फ-तदपि । ५ फ-ख अ-क्ष-अलाश्रयणात् । ६ 'क-ख-ड-चाश्रुतफलेषु' । ७ फ-तस्यानुष्ठाने।
-
For Private And Personal Use Only