________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः ।
यन्ति । अथवा रागद्वेषयोर्लोभोऽन्तर्भूतः । आत्मनियोगोपभोगे चारक्ताः उपायातरेण जीवितुं समर्था लिङ्गधारणादिना जीवन्ति । तदुक्तं भस्मकपालादिधारणं, नग्नता काषाये च वाससी बुद्धिपौरुषहीनानां जीविकेति । द्वेषो विपरितानुष्ठानकारणम् । द्वेषप्रधाना हि नातीव तत्त्वावधारणे समर्था भवन्त्यतोऽधर्ममेव धर्मत्वेनाध्यवस्यन्तीति । अथवोभावपि रागद्वेषौ तत्त्वावधारणे प्रतिबन्धकौ । सत्यामपि कस्यांचिच्छास्त्रवेदनमात्रायां लब्धेऽपि विद्वद्व्यपदेशे रागद्वेषवत्तया विपरीतानुष्ठानं संभवति । जानाना अपि यथावच्छास्त्रं कस्यचिद्देष्यस्योपघाताय प्रियस्य चोपकाराय कौटसाक्ष्याद्यधर्म सेर्वन्ति तेषां वेदमूलमेवानुष्ठानमित्यशक्यनिश्चयं कारणान्तरस्य रागद्वेषलक्षणस्य संभवादतस्तत्प्रतिषेधः ।
अत्र चोच्यते । सद्भिरिति सच्छब्दः साधुतावचनो वर्णितः । कीदृशी च साधुता तस्य यदि रागद्वेषाभ्यामधर्मे प्रवृत्तिः संभाव्यते तस्मादद्वेषरागिभिरिति न वक्तव्यम् । एवं १० तर्हि हेतुत्वेनोच्यते । यतो रागादिवर्जिता अतः सन्तो भवन्ति । रागद्वेषप्रधानत्वाभावश्चात्र प्रतिपाद्यते । न सर्वेण सर्व तदभावयोग्यावस्थागतस्य हेतोर्निरन्वयमुच्छिद्यते । तथा च
श्रुतिः-“ नै ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तीति" । रागो विषयोपभोगगृभुता तत्प्रतिषेधव्यापारो रागद्वेषः । लोभो मात्सर्यमसाधारण्येन स्पृहा, परस्य चैतन्माभूद्विभवख्यात्यादि । चित्तधर्मा एते । अथवा चेतनावत्सु स्त्रीसुतसुहृवान्धवादिषु स्नेहो १५ रागः, लोभोऽचेतनेष्वपि धनादिषु स्पृहा।
हृदयेन । हृदयशब्देन चित्तमाचष्टे । अनुज्ञानं च हृदयस्य प्रसादः । एषा हि स्थितिः अन्तर्हृदयवर्तीनि बुद्धयादितत्त्वानि । यद्यपि बाह्यहिंसाभक्ष्यभक्षणादिषु मूढा धर्मबुद्ध्या प्रवर्तन्ते तथाऽपि हृदयाक्रोशनं तेषां भवति । वैदिके त्वनुष्ठाने परितुष्यति मनः ।
२० तदस्य सर्वस्यायमर्थः । न मया तादृशो धर्म उच्यते यत्रैते दोषाः सन्ति । किंतु य एवंविधैर्महात्मभिरनुष्ठीयते स्वयं च यत्र चित्तं प्रवर्तयति वा । अत आदरातिशय उच्यमानेषु धर्मेषु युक्तः । ____ अथवा हृदयं वेदः । स ह्यधीतो भावनारूपेण हृदयस्थितो हृदयम् । ततश्च त्रितयमत्रोपात्तम् । यदि तावदविचार्यैव स्वाग्रहात्काचित्प्रवृत्तिः कस्यचित्तथाऽप्यत्रैव युक्ता। २५ एतद्धदयेनाभ्यनुज्ञात इत्यनेनोच्यते । अथाप्ययं न्यायो ‘महाजनो येन गतः स पन्थाः' इति तदप्यत्रैवास्ति । विद्वांसो ह्यत्र निष्कामाः प्रवृत्तपूर्वा अनिन्द्याश्च लोके । अथाप्रामाणिकी
१ अ-फ-आत्मनि ये भोगोपयोगासरेण जीवितुमसमर्था लिंगधारणादिना जीवन्ति । स्वरूपज्ञानकुशलाः। २ क-सेवन्ते। ३ बृहदारण्यकोपनिषदि ४ फ-विभवोऽप्यस्यापीति । अ-क-विभवख्यात्या च । ५ उ-ख-क्ष-अनुहातस्य । ६ फ-प्रवृत्तिपूर्वाः ।
For Private And Personal Use Only