________________
Shri Mahavir Jain Aradhana Kendra
४८
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
अथ द्वितीयाध्यायः २ ।
Acharya Shri Kailassagarsuri Gyanmandir
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ॥ हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ १ ॥
५
प्रथमोऽध्यायः शास्त्रप्रतिपाद्यार्थतत्त्वदर्शनार्थोऽनुक्रान्तः । जगत्सृष्ट्यादिवर्णनं च तच्छेषमेव व्याख्यातम् । इदानीं शास्त्रमारभते 1 तत्र प्रतिज्ञातोऽर्थो जगत्सर्गादिवर्णनेन व्यवायाद्विस्मृत इत्यनुसंधानार्थं पुनः शिष्यान्प्रति बोधयति ।
२५
[ द्वितीयः
यो धर्मो भवतां शुश्रूषितस्तमिदानीं मयोच्यमानं निबोधतावहिता भूत्वा शृत । प्रथमेऽध्याये पञ्चषाः श्लोकाः प्रयोजनादिप्रतिपादनार्थाः । परिशिष्टमर्थवादरूपम् । तच्चेनातिसम्यगवधारितं न धर्मपरिज्ञाने महती क्षतिः । इह तु साक्षाद्ध उपदिश्यते । १० ततोऽवधानवद्भिरवधारणीयोऽयमर्थ इति पुनरुपन्यासफलम् । धर्मशब्द उक्तार्थोऽष्टकाद्यनुष्ठानवचनः । बाह्यदर्शनिनस्तु भस्मकपालादि धारणमपि धर्म मन्यन्ते । तन्निवृत्त्यर्थे विद्वद्भिरित्यादीनि विशेषणपदानि ।
1
विद्वांसः शास्त्रसंस्कृतमतयः प्रमाणप्रमेयस्वरूपविज्ञानकुशलाः । ते च वेदार्थविदो विद्वासो नान्ये यतो वेदादन्यत्र धर्मप्रति ये गृहीतप्रामाण्यास्ते विपरीतप्रमाणप्रमेयग्रहणा१५ दविद्वास एव । एतच्च मीमांसातस्तत्त्वतो निश्चीयते ।
सन्तः साधवः, प्रमाणपरिच्छिन्नार्थानुष्ठायिनो हिताहितप्राप्तिपरिहारार्थाय यत्नवन्तः । हिताहितं च दृष्टं प्रसिद्धम् । अदृष्टं च विधिप्रतिषेधलक्षणम् । तदनुष्ठानबाह्या असन्त उच्यन्ते । अत उभयमत्रोपात्तं ज्ञानमनुष्ठानं च । विद्यमानतावचनः सच्छब्दो न संभवत्यानर्थक्यात् । यद्धि येन सेव्यते तत्तेन विद्यमानेनैव ।
२०
सेवाऽनुष्ठानशीलता । भूतप्रत्ययेनानादिका उप्रवृत्ततामाह । नायमष्टकादिधर्मोऽयत्वे केनचित्प्रवर्तित इतरधर्मवत् । एतदेव नित्यशब्देन दर्शयति । यावत्संसारमेषधर्मः । बाह्यधर्मास्तु सर्वे मूर्खदुःशीलपुरुष प्रवर्तिताः कियन्तं कालं लब्धावसरा अपि पुनरन्तवयन्ते । न हि व्यामोहो युगसहस्रानुवर्ती भवति । सम्यग्ज्ञानमविद्यया संच्छन्नमपि तत्क्षये निर्मलतामेवैति । न हि तस्य निर्मलतया छेदः संभव इति ।
For Private And Personal Use Only
अद्वेषरागिभिः। इदंः बाह्यधर्मानुष्ठाने द्वितीयं कारणम् । व्यामोहः पूर्वमुक्तः । अनेन लोभादय उच्यन्ते रागद्वेषग्रहणस्य प्रदर्शनार्थत्वात् । लोभेन मन्त्रतन्त्रादिषु प्रवर्त