SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ] मनुस्मृतिः । धर्मः स्त्रीपुंसयोरित्येकदेशे स्थितयोः प्रवासवियुक्तयोश्च परस्परं वृत्तिः । ऋक्थविभागधर्मः। द्यूतं तद्विषयो विधिः द्यूतशब्देनोक्तः । कण्टकादीनां चोराटविकादीनां शोधनं राष्ट्रान्निरसनोपायः । यद्यपि विभागादिरष्टादशपदान्तर्गतत्वात्कार्याणां चेत्यनेनैवोपादानादृणादानादिवन्न पृथङ्घ्रिर्देशः । अध्यायभेदात्तु पृथङ्किदेशः वैश्यशूद्रयोरुपचारः स्वधर्मानुष्ठानम् । एतन्नवमे । संकीर्णानां क्षत्रियवैदेहकादीनां संभवमुत्पत्तिमापद्धर्मं च स्ववृत्त्याऽजीवतां प्राणात्यये यो धर्मः । एतद्दशमे । Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तविधिरेकादशे ॥ ११३ ॥ ॥ ११४ ॥ ११५ ॥ ११६ ॥ संसारगमनं चैव त्रिविधं कर्मसंभवम् ॥ निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ ११७ ॥ १० संसारगमनं धर्मेण धर्मी लक्ष्यते । संसारी पुरुष आत्मा तस्य गमनं देहा देहान्त - रप्राप्तिः । अथवा संसारविषयाः पृथिव्यादयो लोका उच्यन्ते । तत्र गमनम् । पूर्ववत्रिविधमुत्तमाधममध्यमं कर्मसंभवं शुशुभाशुभकर्मनिमित्तम् । निःश्रेयसं न केवलं कर्मनिमित्तागतय उक्ता। यावद्यतः परमन्यच्छ्रेयो नास्ति तदुपायोऽप्यध्यात्मज्ञानमुक्तम् । कर्मणां च विहितप्रतिषिद्धानां गुणदोषपरीक्षा ॥ ११७ ॥ देशधर्माञ्जातिधर्मान्कुलधर्माथ शाश्वतान् ॥ यथेदमुक्त वाञ्छा पुरा पृष्टो मनुर्मया ॥ तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११९ ॥ १ ड - प्रायश्चिविधि । पापण्डगणधर्माच शास्त्रेऽस्मिन्नुक्तवान्मनुः ॥ ११८ ॥ तदेव साकल्याभिधानं द्रढयति । प्रतिनियते देशेऽनुष्ठीयमाना न सर्वस्यां पृथिव्यां ते दशधर्माः । ब्राह्मणादिजात्याश्रया जातिधर्माः । कुलधर्माः प्रख्यात वंशप्रवर्तिता इति । पाखण्डं प्रतिषिद्धव्रतचर्या । आवाह्यस्मृतिसमाश्रयास्तत्र ये धर्माः । ' पाखण्डिनो २० विकर्मस्थानिति '। गणः संघातो वणिक्कारुकुशीलवादीनाम् । तान्सर्वधर्मान्भगवान्मनुरस्मिञ्छास्त्रे उक्तवान् ॥ ११८ ॥ अवधानार्थः प्रतिबोधः ॥ ११९॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ॥ १ ॥ इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये प्रथमोऽध्यायः ॥ १ ॥ ४७ For Private And Personal Use Only १५ २५
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy