________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः जगतश्च समुत्पत्तिमिति कालपरिमाणं तत्त्वभावभेदो ब्राह्मणस्तुतिरित्यादि सर्व मगदुत्पत्तावन्तर्भूतम् । एतच्चार्थवादतयोक्तं न प्रमेयतया। संस्काराविधि व्रतचर्योपचार च । गर्भाधानादयः संस्काराः तेषां विधिः कर्तव्यता । ब्रह्मचारिणो व्रतचर्याया उपचारो
ऽनुष्ठानमितिकर्तव्यता वा । एतद्वितीयाध्यायप्रमेयार्थः । स्नानं गुरुकुलान्निवर्तमानस्य ५ संस्कारविशेषः ॥ १११ ॥
दाराधिगमनं चैव विवाहानां च लक्षणम् ॥ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ ११२॥
दाराणामधिगमनं भार्यासंग्रहः । विवाहानां ब्राह्मादीनां तत्प्राप्त्युपायाना च लक्षणं स्वरूपाधिगमने हेतुम् । महायज्ञाः पञ्च वैश्वदेवादयः । श्राद्धस्य पितृयज्ञस्य १० कल्पो विधिरितिकर्तव्यता । परग्रहणं शाश्वतग्रहणं च वृत्तपूरणार्थम् । एष तृतीयाध्यायार्थः ॥ ११२ ॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ॥ भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ ११३ ॥ स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ॥ राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ ११४ ॥ साक्षिप्रश्नविधानं च धर्म स्त्रीपुंसयोरपि ॥ विभागधर्म द्यूतं च कण्टकानां च शोधनम् ॥ ११५ ॥ वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ॥
आपद्धर्म च वर्णानां प्रायश्चितिविधि तथा ॥ ११६ ॥
वृत्तीनां जीवनोपायानां धनार्जनात्मकानां भृत्यादीनां लक्षणम् । स्नातकस्य समाप्तवेदाध्ययनस्य गुरुकुलान्निवृत्तस्य व्रतानि 'नेक्षेतोद्यन्तमादित्यमित्यादीनि' । एष चतुथाऽर्थः ।
भक्ष्याभक्ष्यं 'पञ्चपञ्चनखा भक्ष्या' 'अभक्ष्यं पलाण्ड्डादि' शौचं कालकृतं जन्मादावुदकादिना च द्रव्यशुद्धिः स्त्रीधर्मयोगः संबन्धो बालयुवेत्यादि । एतत्पाञ्चमिकम् । २५ तापसाय हितं तापस्यं तपःप्रधानस्तापसो वानप्रस्थस्तस्य धर्मस्तापस्यम् । मोक्षः
परिव्राजकधर्मः संन्यासश्च तद्विशेष एव स च तत्रैव दर्शयिष्यते । षष्टाध्यायस्त्वेतत्। ___ राज्ञः पृथिवीपालनाधिकृतस्य प्राप्तैश्चर्यस्य धर्मोऽखिलो दृष्टार्थोऽदृष्टार्थश्च । एष सप्तमाध्यायगोचरः।
___ कार्याणामृणादीनां विनिर्णयो विचार्य संशयच्छेदेनावधारणमनुष्ठेयनिश्चयः । ३० साक्षिणां च प्रश्ने यो विधिः प्राधान्यात्पृथनिर्देशः । आष्टमिकोऽयमर्थः ।
२०
For Private And Personal Use Only