________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
C
यदि कर्मस्वरूपमितिकर्तव्यताफलविशेषः कर्तृविशेष संबन्धो नित्यकाम्यताविवेकः । एतत्सर्वं गुणपदेन प्रतिज्ञातम् । धर्म इत्यक्ते कर्मग्रहणं वृत्तपूरणार्थम् । चतुर्णामपि वर्णाना' मेतदपि साकल्यार्थम् । यो नाम कश्चिद्धर्मेऽधिकृतस्तस्य सर्वस्येतो धर्मलाभः । आश्वारश्चैव शाश्वतः । आचारप्रमाणको धर्म आचार इत्युक्तः । द्वितीये चैनं विवेक्ष्यामः । शाश्वतो वृद्धपरंपरया नेदानींतनैः प्रवर्तितः ॥ १०७ ॥
1
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ॥
तस्मादस्मिन्सदायुक्तो नित्यं स्यादात्मवान् द्विजः ॥ १०८ ॥ परमः प्रकृष्टो धर्म आचारस्तथा श्रुतौ वेदे य उक्तः । स्मार्तः स्मृतिषूक्तस्तस्माचारधर्मे नित्यं युक्तः स्यान्नित्यमनुतिष्ठेदात्मवानात्मनो हितमिच्छन् । सर्वस्याऽऽत्मास्त्यतो मतुपा तद्धितपरत्वमुच्यते ॥ १०८ ॥
आचाराद्विच्युतो विप्रो न वेदफलमश्रुते ॥
सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ११० ॥ यावत्किंचित्तपःप्राणायाममौनयमनियमकृच्छ्र चान्द्रायणानशनादि तस्य सवस्य फलप्रसवे मूलमाचारोऽतस्तमेव मुनयस्तपः फलार्थिनो मूलत्वेन कारणतया जगृहु: गृहीतवन्तः । आचाराद्दृष्ट्वा धर्मस्य मुनयो गतिं प्राप्तिमतिक्लेशकरं तपस्तदाप्याचारहीनस्य न फलतीति श्रुतिः ॥ ११० ॥
जगतश्च समुत्पत्तिं संस्कारविधिमेव च ॥
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १११ ॥
उक्तधर्मा अत्र विशिष्यन्ते । श्रोतृप्रवृत्त्यर्थं चानन्तफलता धर्मस्योक्ता 'एतदन्ता' स्त्वित्यादिना । तत्रातीन्द्रियोऽयमनन्तो दुप्पार इति मन्वाना अवसीदेयुरत उत्साहजननार्थ शास्त्रार्थसंकलनात्मिकामनुक्रमणी पठति । एतावन्त्यत्र वस्तूनि नाति बहूनि शक्यन्ते श्रद्दधानैः पुरुषैर्ज्ञातुमिति । संक्षेपोपदिष्टमार्ग आक्रम्यमाणो न दुःसहो भवतीति ।
For Private And Personal Use Only
४५
आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् ।। १०९ ॥
प्रकार -तरेणेयमाचारस्तुतिः । आचारात्प्रच्युत आचारहीनो न वेदफलं प्राप्नोति । वेदविहितकर्मानुष्ठानफलं वेदफलमित्युक्तम् । समग्राण्यविकलानि वैदिकानि कर्माण्यनुतिष्ठन्यद्याचारभ्रष्टो न ततः पुत्रकामादिफलमश्रुत इति निन्दा । एष एवार्थो विपर्ययेणोच्यते । १५ आचारेण तु संयुक्तः सकलं फलं प्राप्नोति । काम्यानां च । अत्र यद्वदन्ति संपूर्णवचनादाचारहीनस्याप्यस्ति काम्येभ्यः फलसंबन्धो न कृत्स्नफललाभ इति तन्न किंचित्, अर्थवादत्वादस्य ॥ १०९॥
एवमाचारतो दृष्टा धर्मस्य मुनयो गतिम् ॥
१०
२०
२५
३०