________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[प्रथमः इदं शास्त्रभधीयानो ब्राह्मणः संशितव्रतः॥ मनोवाग्दहजेनित्यं कर्मदोषैर्ने लिप्यते ॥ १०४ ॥
एवं संबन्धद्वारेण ब्राह्मणार्थतया शास्त्रं स्तुत्वाऽधुना साक्षात्स्तौति । इदं शास्त्रं जानानः संशितवतो भवतीति परिपूर्णयमनियमानुष्ठायी भवति । शास्त्रादननुष्ठाने प्रत्यवायं ज्ञात्वा तद्भयाद्नुतिष्ठति सर्वान्यमनियमान्यथाशास्त्रं सर्वमनुतिष्ठति । अनुतिष्ठन्विहितातिक्रमप्रतिषिद्धकर्मजनितैदोषैर्न लिप्यते न संवध्यते ॥ १०४ ॥
पुनाति पंक्तिं वंश्यांश्च सप्तसप्त परावरान् ॥
पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ १०५॥
पंक्तिपावनो भवति । विशिष्टानुपूर्वीकः संघातः पंक्तिरुच्यते । तां पुनाति निर्म१० लीकरोति । सर्वे दुष्टास्तत्सन्निधानाददुष्टाः संपद्यन्ते । वंश्यान्स्वकुलसंभूतान्सप्तपरानुपरि
तनान्पित्रादीनागामिनोऽवराञ्जनिप्यमाणान् । समुद्रपर्यन्तां पृथिवीं प्रतिग्रहीतुमर्हन्ति । धर्मज्ञता हि प्रतिग्रहाधिकारे हेतुः । इतश्च सर्वे धर्मा ज्ञायन्ते ॥ १०५ ॥
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ॥
इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥ १०६ ॥ स्वस्त्यभिप्रेतम्यार्थस्याविनाशः । अयनं प्रापणम् । स्वस्ति प्राप्यते येन तत्स्वस्त्ययनं । श्रेष्ठमन्येभ्यो जपहोमादिभ्यः । न हि शास्त्रमन्तरेण तेषामनुष्ठानं संभवति अतस्तदनुष्ठानहेतुत्वाच्छ्रेष्ठमेतत् । अथवा धर्मज्ञानार्थवाक्यान्येव श्रेयस्यान्यनुष्ठानं तु क्लेशकरमत उच्यते श्रेष्ठमिति । इदं बुद्धिविवर्धनम् । शास्त्रे ह्यासेव्यमाने तदर्थस्य प्रकाश
नाहन्थिप्रमोक्षाद्बुद्धिविवृद्धिः प्रसिद्धैव । इदं यशस्य, धर्मज्ञः संशयानैः पृच्छ्यमानः २० ख्यातिं लभते यशसो निमित्तं यशस्यं विद्वत्तौदार्यादिगुणवत्तया प्रसिद्धिर्यशः । निः
श्रेयसं दुःखान नुविद्धायाः प्रीतेः स्वर्गापवर्गलक्षणायास्तत्प्राप्तिहेतुकर्मज्ञानहेतुत्वान्निःश्रेयसं परं श्रेष्ठम् ॥ १०६ ॥
अस्मिन् धर्मोऽखिलेनोक्तो गुणदोपौ च कर्मणाम् ॥
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १०७ ॥ २५ इदानीं स्वशास्त्रस्य स्वविषये साकल्येन वृत्तेरन्यनिरपेक्षतामाह । कश्चिद्यो नाम
धर्मः स सर्वः शास्त्रेऽस्मिन्कात्स्न्येनाभिहितः न तस्माद्धर्मज्ञानाय शास्त्रान्तरापेक्षा कर्तव्येत्यतिशयोक्तिः स्तुतिः । अस्मिञ्छास्त्रे धर्मः स्मार्तोऽखिलेन निःशेषेणोक्तौ गुणदोषौ च कर्मणामिष्टानिष्टे फले गुणदोषौ कर्मणां यागादिब्रह्महत्यादीनाम् । एवं हि साकल्यं भवति १ अ-फ-क-ब-शंसितव्रतः । २ अस्याग्रे-" यथा त्रिवेदाध्ययनं धर्मशास्त्रभिदं तथा ॥ अध्येतव्यं
इद रामनार
ब्राह्मणेन नियतं स्वर्गमिच्छता" इतिपाठो दृश्यते कुत्रचिन् । ३ख-ड-सततम् ।
For Private And Personal Use Only