________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३
१०
अध्यायः ]
मनुस्मृतिः । प्रतिग्रहीतृतयेति । प्रशंसैषा न विधिरत एवार्हतिशब्दः । अभिजनोऽभिजातता विशिष्टत्वम् ॥ १० ॥
स्वमेव ब्राह्मणो भुंक्ते स्वं वस्ते स्वं ददाति च ॥
आनृशंस्याद्राह्मणस्य भुञ्जते हीतरेजनाः ॥ १०१ ॥ यत्परगृह आतिथ्यादिरूपेण भुक्ते तदात्मीयमेव । नैवं मन्तव्यं परपाकेनेति । ५ स्वं वस्ते याचित्वाऽयाचित्वा वा वस्त्रं लभते नासौ तस्य लाभाय अपि तु स्वकृत्याच्छादने विनियोगः । तिष्ठतु तावदात्मोपयोगि गृह्णाति तत्र प्रभूतं यदन्येभ्यो ददाति परकीयम् तदपि तस्य नानुचितम् । आनृशंस्य कारुण्यं तदीयया महासत्त्वतया पृथिव्यां राजानः स्वानि धनान्युपयुञ्जते । अन्यथा यद्यसाविच्छे — दहमेतदादाय स्वकार्ये विनियुञ्जीयेति' तदा सर्वे निर्धनाः निरुपयोगाः स्युः ॥ १०१॥
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः॥
स्वायंभुवो मनु/मानिदं शास्त्रमकल्पयत् ॥ १०२ ॥ सर्वस्याः ब्राह्मणश्रुतेः फलप्रदर्शनार्थं श्लोकोऽयम् । एवंविधामदं महार्थं शास्त्रं यत्तस्य स्वमहिम्नाऽऽत्यन्तिकेन महत्तमस्य ब्राह्मणस्य कर्मविवेकार्थ इमानि कर्माणि कर्तव्यानि इमानि वाणि एष विवेकस्तदर्थम् । शेषाणां च क्षत्रियादीनामनुपूर्वशः १५ प्राधान्याब्राह्मणस्यानुषङ्गात्क्षत्रियादीनामिदं शास्त्रमकल्पयत्कृतवान् ॥ १०२ ॥
विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ॥
शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्कान्येन केनचित् ॥ १०३ ॥ अध्येतव्यं प्रवक्तव्यमित्यर्हे कृत्यो न विधौ । द्वितीयादध्यायात्प्रभृति शास्त्रं प्रवतिष्यते । अयं ह्यध्यायोऽर्थवाद एव । नात्र कश्चिद्विधिरस्ति । तेन यथा ' राजभोजनाः २० शालयः' इति शालिस्तुतिर्न राज्ञोऽन्यस्येति तद्भोजननिषेधः एवमत्रापि नान्येन केनचिदिति नायं निषेधः केवलं शास्त्रस्तुतिः । सर्वस्मिञ्जगति श्रेष्ठो ब्राह्मणः सर्वशास्त्राणां शास्त्रमिदमतस्तादृशस्य विदुषो ब्राह्मणस्याध्ययनप्रवचनार्ह न सामान्येन शक्यते अध्येतुं प्रवक्तुं वा। अत एवाह । प्रयत्नत इति । यावन्न महान्प्रयत्न आस्थितो यावन्न शास्त्रान्तरैस्तर्कव्याकरणमीमांसादिभिः संस्कृत आत्मा तावदेतत्प्रवक्तुं न शक्यते । अत एवाध्य- २५ यनेनः श्रवणं लक्ष्यते । तत्र हि विद्वत्तोपयोगिनी न संपाठे । विधौ ह्यध्ययने विद्वत्ताऽ दृष्टायैव स्यान्न च विधौ श्रवणमध्ययनेन लक्ष्यत इति युक्तं वक्तुं न विधेये लक्षणार्थता युक्ता । अर्थवादे तु प्रमाणान्तरानुसारेण गुणवादो, न दोषाय । तस्मात्रैवर्णिकाधिकारं शास्त्रमेतच्च परस्ताद्विशेषतो वक्ष्यते ॥ १०३ ॥
१ इ-अध्यायादारभ्य।
For Private And Personal Use Only