________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः पृथिव्यां ये भावाः स्थावरा वृक्षादयो जङ्गमाः कृमिकीटादयस्ते भूतशब्देनोच्यन्ते। तेषां ये प्राणिन आहारविहारादिचेष्टासमर्थास्ते श्रेष्ठाः प्राणिनस्ते हि पटुतरं सुखमनुभवन्ति । तेषां ये बुद्ध्या जीवन्ति हिताहिते विचिन्वन्ति श्वशृगालादयः; ते हि धर्मेणोपतप्ताः छायामुपसर्पन्ति, शीतेनार्दिता आतपे निराहारं स्थानं त्यजन्ति । तेषामधिकतरा मनुष्यास्तेषां च ब्राह्मणाः । ते हि लोके पूज्यतमाः । न च सर्वेण परिभूयन्ते । जातिमात्राश्रयं हि तद्वधे महत्प्रायश्चित्तम् ॥ ९६ ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥ कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥९७ ॥
विदुषा श्रेष्ठ्यं महाफलेषु यागादिप्वधिकारात् । तेषामपि कृतबुद्धयः परिनिष्ठित१० वेदतत्त्वार्था न बौद्धादिभिः कलुषीक्रियन्ते । तेषामपि कर्तारः कर्मणामनुष्ठातारः । ते हि विहितकरणात्प्रतिषिद्धासेवनाच्च नोपहन्यन्ते तेषामपि ब्रह्मस्वरूपत्वात्तत्र ह्यक्षय्यानन्दः॥९७॥
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती ॥ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ९८ ॥
विद्वत्तादिगुणसंबन्धिनो ब्राह्मणस्य विशेषे दर्शिते जातिमात्रं ब्राह्मणं कश्चिदवमन्येत १५ तन्निवृत्त्यर्थमिदमुच्यते । उत्पत्तिरवे गुणानपहाय जन्मैव ब्राह्मणस्य जातिरेव शाश्वती
धर्मस्य मूर्तिः शरीरम् । धर्मार्थमुत्पन्नो द्वितीयेन जन्मनोपनयनेन संस्कृतः । सा हि तस्य धर्मार्थोत्पत्तिर्ब्रह्मत्वाय कल्पते संपद्यते। धर्मशरीरमुज्झित्वा परानन्दभाग्भवतीति श्रृंतिः९८
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ॥ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ९९ ॥
सर्वलोकस्योपरि भवति । श्रेष्ठ्यमुपरिभावेनाह । ईश्वरः सर्वभूतानामिति । प्रभुत्वं धर्माख्यस्य कोशस्य गुप्तये जायते । द्रव्यसंचयः कोशः । उपमानाद्धर्मसंचय उच्यते कोश इति ॥ ९९ ॥
सर्व स्वं ब्राह्मणस्येदं यत्किंचिजगतीगतम् ।।
श्रेष्ठयेनाभिजनेनेदं सर्व वै ब्राह्मणोऽर्हति ॥ १०० ॥ २५ असंतुष्टस्य प्रतिग्रहादिषु पुनः प्रवृत्तौ दुष्कृतितामाशङ्कय समाधत्ते । सर्वमिदं
त्रैलोक्यान्तर्वति धनं ब्राह्मणस्य स्खं नात्र प्रतिग्रहो विद्यते । प्रभुत्वेनासौ गृह्णाति न __ १ ड-विदन्ति । २. शाब्दोऽर्थः ३ "तेषां न पूजनीयोऽन्यस्त्रिषु लोकेषु विद्यते ॥ तपोविद्याविशेषेण पूजयन्ति परस्परम् ॥ ब्रह्मविद्यः परंभूतं न किंचिदिह विद्यते " ॥ भभण्डलिकमुद्रितपुस्तके दृश्यते ।
For Private And Personal Use Only