SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ॥ तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ ९२ ॥ आपादान्तान्मध्यः पुरुषस्तस्य नाभेरूद्धमतिशयेन मेध्यं ततोऽपि मुखम् । एतच्च स्वयमेव जगत्कारणपुरुषेणोक्तम् ॥ ९२ ॥ ततः किमत आह उत्तमाङ्गोद्भवाज्यैष्ठ्याब्रह्मणश्चैव धारणात् ॥ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ९३ ॥ उत्तामङ्गं मों तत उद्भव उत्पत्तिाह्मणस्य। ज्येष्ठश्चासावन्येभ्यो वर्णेभ्यः पूर्व ब्रह्मणा सृष्टः । ब्रह्मणो वेदस्य धारणात्तस्य हि सविशेष तद्विहितमतः सर्वस्य जगतोऽस्माद्धेतुत्रयाब्राह्मणः प्रभुः प्रभुरिव । प्रभुर्विनयेनोपसर्पणीयः । तदाज्ञायां च धर्मे स्थातव्यम् । धर्मतः १० प्रभुर्धर्मे प्रभुरित्यर्थः । आद्यादित्वात्तसिः ॥ ९ ॥ तं हि स्वयंभूः स्वादास्यात्तपस्तत्वाऽऽदितोऽसृजत् ॥ हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ ९४ ॥ पूर्वस्यैव हेतुत्रयस्य विशेपार्थमिदम् । अन्यस्यापि पुरुषस्योत्तमाझं प्रधानम् । तं पुनर्ब्राह्मणं स्वयंभूः स्वादास्यान्मुखादसृजत् । तपश्च कृत्वैपोत्तमाङ्गादुत्पत्तिः । १५ ज्यैष्ठ्यमाह आदितः। यद्देवानुद्दिश्य क्रियते तद्धव्यम् । पितृनुद्दिश्य तत्कव्यम् । तयोरभिवहनाय देवान्पितॄश्च प्रति प्रापणाय । अभिवाह्यायेति भावे कृत्यः कथंचिद्रष्टव्यः । सकर्मत्वाद्वहतेः । तेन च कर्मणा सर्वस्य त्रैलोक्यस्य गुप्तिः परिपालनं भवति । इतः प्रदानं देवा उपजीवन्ति । ते च शीतोष्णवर्षेरोषधीः पचन्ति पाचयन्ति । अतः परस्परोपकारागुप्तिः ॥ ९४ ॥ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ॥ कव्यानि चैव पितरः किं भूतमधिकं ततः ? ॥९५॥ __हव्यादिवहनं पूर्वोक्तं दर्शयति । त्रिदिवमोको गृहं येषां त एवमुच्यन्ते । स्वर्गवासिनो देवाः । ब्राह्मणेन भुक्तमन्नं देवा उपतिष्ठन्ति। श्राद्धे पित्र्यस्य कर्म गोऽङ्गभूतं विश्वेदैवानुद्दिश्य ब्राह्मणभोजनं विहितम् । तदपेक्ष्यैतदुक्तम् । किं भूतमन्यदधिकं श्रेष्ठं तत- २५ स्तस्मादिति । स्वयं विस्मयते । देवाः पितरश्चोत्तमस्थाना मध्यमस्थानाश्चाप्रत्यक्षा न तेषां भोजनोपायोऽन्योऽस्त्यन्यतो ब्राह्मणभोजनादतो महान्ब्राह्मणः । ९५ ॥ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।। बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ ९६ ॥ १ ड-अतो ब्राह्मणभोजनात् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy