________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः ह्येवं वर्ण्यते । तपःप्रधानं तच्च महाफलम् । दीर्घायुषो रोगवर्जितास्तपसि समर्था भवन्त्यनेनाभिप्रायेणोच्यते । ज्ञानमध्यात्मविषयं शरीरक्लेशादन्तर्नियमो नातिदुष्करः । यागे तु न महाक्लेश इति द्वापरे यज्ञः प्रधानम् । दाने तु न शरीरक्लेशो नान्तःसंयमो न चातीव विद्वतोपयुज्यत इति सुसंपादना ॥ ८६ ॥
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ॥ मुखबाहूरुपज्जानां पृथकर्माण्यकल्पयत् ॥ ८७ ॥
उक्तः कालविभागः । ब्राह्मणादीनां गुणा इदानीं कथ्यन्ते । तत्रायमुपक्रमः । सर्वस्य सर्गस्य सर्वेषां लोकानां गुप्त्यर्थ रक्षार्थम् । महातेजाः प्रजापतिः मुखादिजातानां ब्राह्मणादीनां चतुर्णी वर्णानां दृष्टादृष्टार्थानि कर्माण्यकल्पयव्यवस्थापितवान् ॥ ८७ ॥
अध्यापनमध्ययनं यजनं याजनं तथा ॥ दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ ८८ ॥ तानीदानी कर्माण्युच्यन्ते ॥ ८ ॥ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ॥ विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ ८९ ॥
विषयामिलापजनका गीतशब्दादयो भावा उच्यन्ते । तत्राप्रसंगः पुनः पुनरसेवनम् ॥ ८९॥
पशूनां रक्षणं दानमिज्याऽध्ययनमेव च ॥ वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ ९ ॥
वणिक्पथः वणिकर्मणा स्थलपथवारिपथादिना धनार्जनमुपयुज्यमानदेशान्तरीयद्रव्य२० सन्निधापनं यस्य राज्ञो विषये वसति । कुसीदं वृद्ध्या धनप्रयोगः ॥ ९० ॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ॥ एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ९१ ॥
प्रभुः प्रजापतिरेकं कर्म शूद्रस्यादिष्टवान् । एतेषां ब्राह्मणक्षत्रियवैश्यानां शुश्रूषा त्वया कर्तव्याऽनमूययाऽनिन्दया चित्तेनापि तदुपरि विषादो न कर्तव्यः । शुश्रूषा परिचर्या २५ तदुपयोगि कर्म करणं शरीरसंवाहनादितच्चित्तानुपालनम् । एतदृष्टाथै शूद्रस्य अविधायकत्वा
बैकमेवेति न दानादयो निषिध्यन्ते । विधिरेषां कर्मणामुत्तरत्र भविष्यति । अतः स्वरूपं विभागेन यागादीनां तत्रैव दर्शयिष्यामः ॥ ९१ ॥
For Private And Personal Use Only