SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ एकादश भवत्येव पंचशरावः । एवं सर्वप्रायश्चित्तेषु द्रष्टव्यम् । इच्छयेति विवक्षितमनिच्छयेति च प्राजापत्यसान्तपनयोः स्वरूपं वक्ष्यति ॥ १२४ ॥ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ॥ मलिनीकरणीयेषु तप्तः स्याद्यवकम्यहम् ॥ १२५ ॥ सङ्करीकरणमपात्रीकरणं पूर्वमुक्तेनेति । एवं सङ्करापात्रकृत्यास्विति सजिमेदाबहुवचनम् । कृत्याशब्दः प्रत्येकमभिसंबध्यते । कृत्यं कारणम् । ऐन्दवो मासः चान्द्रायणो यावको यवविकारः पेयलेह्यादिः । अत्राविशेषश्रवणेऽपीच्छानिच्छयोर्गुरुलघुभावो विज्ञेयः ॥ १२५ ॥ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ॥ वैश्येऽष्टमांशो वृत्तस्थे शुद्ध ज्ञेयस्तु षोडशः ।। १२६ ॥ सवनगतयो राजवैश्ययोर्ब्राह्मणममुक्तं । इह तु ततोन्यत्र स्वधर्मानुष्ठानयोश्चतुर्थाष्टमविभागविधिः । तथा च वृत्तस्य ग्रहणं सर्वक्रियार्थम् । त्रीणि वर्षाणि क्षत्रियस्य सार्धवर्ष वैश्यस्य नव मासान् शूद्रस्य । यत्तु स्त्रीशूद्रस्य विक्षत्रियवध इति तत्परित्यक्तस्वकर्मणोर्वैश्यवृत्तौ वैश्यस्य वृत्तावेव वाऽधर्मस्थितयोः शूद्रस्य वृत्तं द्विनशुश्रूषादि न महाय५ ज्ञानुष्ठानं च वृत्तं शीलं तिष्ठति गहने यथा समये स्वधर्मपराणां विधिवत्प्रायश्चित्तम् ॥१२६॥ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ॥ वृषभैकसहस्रा गा दद्यात्सुचरितत्रतः ॥ १२७ ॥ इदमपरं दानप्रायश्चित्तं संभवद्वित्तस्य । तपो नास्तीति वक्ष्यति । "दानेन वधनिर्णेकम् " इत्यादि । अकामत इति न विवक्षितं महत्त्वात्प्रायश्चित्तस्य । यदि वा २० सवनगतयोरेवाकामत इति कल्पनीयम्। वृषभ एको यासां सहस्रे ता वृषभैकसहस्राः।१२७॥ यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् । वसन्दूरतरे ग्रामादृक्षमूलनिकेतनः ॥ १२८ ॥ आद्योऽर्धः श्लोकस्तुरीय इतरस्यानुवादो जटीति चीरखटाङ्गधारणादिमिवृत्त्यर्थ२५ मिति केचित् । तदुक्तं तत्रैव ते धर्मास्तदीयतुरीयभागातिदेशो नान्येषां सत्यपि संभवे सरस्वतीपरिसर्पणादीनामिव प्रयोजनसत्त्वोपपत्तौ दूरत इति प्रामान्निवृत्तिवृक्षमूले कुटीं कृत्वेति ॥ १२८ ॥ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥ १२९ ॥ ३० पूर्वत्राष्टमोऽशः । अनेन द्वादशो विधीयते । अतुल्यत्वाददन्यूनगुणस्य विधिरयमिति १णर-शुद्धयर्थमात्मनः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy