SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६५ अध्यायः ] मनुस्मृतिः । "सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । संचायमग्निः सिञ्चतु प्रजया च धनेन च ॥" इत्येतया जुहुयान्मान्त्रवर्णिकत्वात् देवतानां श्लोके वातमरुच्छब्दौ मरुद्धृहस्पतिशब्दलक्षणावतो वातादिषु स्वाहाकारादौ मरुद्धृहस्पतिशब्दो प्रयोक्तव्यौ न वातगुरुशब्दौ ॥ ११९ ॥ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ॥ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ १२०॥ अवकीर्णिपदार्थनिरूपणमतश्चोपात्तव्रतातिरिक्तविषय एवं विज्ञायते । व्रतस्यास्येति ब्रह्मचर्याश्रमस्थस्येति स्मृत्यन्तरदर्शनाद्विज्ञेयं। रेतःसेकस्त्वस्यैव विशेषतःप्रतिषिद्धोऽन्तरेणापि स्त्रीसंप्रयोगं । कामतः सेके विधिरयम् ॥ १२० ॥ मारुतं पुरुहूतं च गुरुं पावकमेव च ॥ चतुरो वतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ १२१ ॥ १० आद्याहुतिरिति विधेरर्थवादो वतिनः सत अवकीणिनः यत् ब्रह्मतेजो विविधविज्ञानोपार्जितं पुण्यं तद्देवतां देवतामुपैत्युपसंक्रामति । तत्र लयं गच्छतीति यावत् । वतिनोपैतीति विवक्षितम् ॥ १२१ ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ॥ सप्तागारांश्चरेद्भक्षं स्वकर्म परिकीर्तयन् ॥ १२२ ॥ वसित्वा आछाद्य स्वकर्मावकीर्णोऽस्मीत्येवम् ॥ १२२ ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ॥ उपस्पृशं विषवणं त्वब्देन स विशुध्यति ॥ १२३ ॥ प्रातमध्याह्नापराह्वेषूपस्पृशन् स्नानं कुर्वन् संवत्सरेण पूतो भवति ॥ १२३ ॥ जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया ॥ चरेत्सान्तपनं कृच्छ्रे प्राजापत्यमनिच्छया ॥ १२४ ॥ समाप्तान्युपपातकानि । अन्यतममित्यनुवादो न हि निमित्तानां समाहारसंभवः समुदायविवक्षायां न च कस्यचित्प्रायश्चित्तमुपदिशति । को हि मनुष्यः सर्वाणि जातिभ्रंशकराण्यकार्याणि कुर्यात् । एक एव शब्दः प्रायश्चित्तानुदेशोऽशास्त्रताप्रसङ्गो न च साहित्यविवक्षाऽप्युक्ता लक्षणत्वेन श्रवणात्पुरुषं प्रति निमित्तानामतः प्रत्येकं वाक्यपरिसमाप्तिर्यस्य पिता पितामहः सोमं न पिबदित्यन्यतरस्य पितुः पितामहस्य वासो मम पीतवतो भवत्येव पशुर्यथा सत्यप्युभयश्रवणे याभयं हविरिति याच्यादित्यन्यतरहविर्विनाशेऽपि १०९ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy